Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

गोविंद दामोदर स्तोत्रम् (लघु)

Govinda Damodara Stotram Selected Verses in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

govinda damodara stotram selected verses in nepali

करारविंदेन पदारविंदं
मुखारविंदे विनिवेशयंतम् ।
वटस्य पत्रस्य पुटे शयानं
बालं मुकुंदं मनसा स्मरामि ॥

श्रीकृष्ण गोविंद हरे मुरारे
हे नाथ नारायण वासुदेव ।
जिह्वे पिबस्वामृतमेतदेव
गोविंद दामोदर माधवेति ॥ 1

विक्रेतुकामाखिलगोपकन्या
मुरारिपादार्पितचित्तवृत्तिः ।
दध्यादिकं मोहवशादवोचत्
गोविंद दामोदर माधवेति ॥ 2

गृहे गृहे गोपवधूकदंबाः
सर्वे मिलित्वा समवाप्य योगम् ।
पुण्यानि नामानि पठंति नित्यं
गोविंद दामोदर माधवेति ॥ 3

सुखं शयाना निलये निजेऽपि
नामानि विष्णोः प्रवदंति मर्त्याः ।
ते निश्चितं तन्मयतां व्रजंति
गोविंद दामोदर माधवेति ॥ 4

जिह्वे सदैवं भज सुंदराणि
नामानि कृष्णस्य मनोहराणि ।
समस्त भक्तार्तिविनाशनानि
गोविंद दामोदर माधवेति ॥ 5

सुखावसाने इदमेव सारं
दुःखावसाने इदमेव ज्ञेयम् ।
देहावसाने इदमेव जाप्यं
गोविंद दामोदर माधवेति ॥ 6

जिह्वे रसज्ञे मधुरप्रिये त्वं
सत्यं हितं त्वां परमं वदामि ।
अवर्णयेथा मधुराक्षराणि
गोविंद दामोदर माधवेति ॥ 7

त्वामेव याचे मम देहि जिह्वे
समागते दंडधरे कृतांते ।
वक्तव्यमेवं मधुरं सुभक्त्या
गोविंद दामोदर माधवेति ॥ 8

श्रीकृष्ण राधावर गोकुलेश
गोपाल गोवर्धननाथ विष्णो ।
जिह्वे पिबस्वामृतमेतदेव
गोविंद दामोदर माधवेति ॥ 9

govinda damodara stotram selected verses in nepali

Copy
Give Feedback