Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री ललिता स्तवरत्नम् (आर्या द्विशती)

Sri Lalitha Stavaratnam Arya Dwishati in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri lalitha stavaratnam arya dwishati in sanskrit

वन्दे गजेन्द्रवदनं
वामाङ्कारूढवल्लभाश्लिष्टम् ।
कुङ्कुमपरागशोणं
कुवलयिनीजारकोरकापीडम् ॥ 1 ॥

स जयति सुवर्णशैलः
सकलजगच्चक्रसङ्घटितमूर्तिः ।
काञ्चननिकुञ्जवाटी-
-कन्दलदमरीप्रपञ्चसङ्गीतः ॥ 2 ॥

हरिहयनैरृतमारुत-
-हरितामन्तेष्ववस्थितं तस्य ।
विनुमः सानुत्रितयं
विधिहरिगौरीशविष्टपाधारम् ॥ 3 ॥

मध्ये पुनर्मनोहर-
-रत्नरुचिस्तबकरञ्जितदिगन्तम् ।
उपरि चतुःशतयोजन-
-मुत्तुङ्गं शृङ्गपुङ्गवमुपासे ॥ 4 ॥

तत्र चतुःशतयोजन-
-परिणाहं देवशिल्पिना रचितम् ।
नानासालमनोज्ञं
नमाम्यहं नगरमादिविद्यायाः ॥ 5 ॥

प्रथमं सहस्रपूर्वक-
-षट्शतसङ्ख्याकयोजनं परितः ।
वलयीकृतस्वगात्रं
वरणं शरणं व्रजाम्ययोरूपम् ॥ 6 ॥

तस्योत्तरे समीरण-
-योजनदूरे तरङ्गितच्छायः ।
घटयतु मुदं द्वितीयो
घण्टास्तनसारनिर्मितः सालः ॥ 7 ॥

उभयोरन्तरसीम-
-न्युद्दामभ्रमररञ्जितोदारम् ।
उपवनमुपास्महे वय-
-मूरीकृतमन्दमारुतस्यन्दम् ॥ 8 ॥

आलिङ्ग्य भद्रकाली-
-मासीनस्तत्र हरिशिलाश्यामाम् ।
मनसि महाकालो मे
विहरतु मधुपानविभ्रमन्नेत्रः ॥ 9 ॥

तार्तीयीको वरण-
-स्तस्योत्तरसीम्नि वातयोजनतः ।
ताम्रेण रचितमूर्ति-
-स्तनुतामाचन्द्रतारकं भद्रम् ॥ 10 ॥

मध्ये तयोश्च मणिमय-
-पल्लवशाखाप्रसूनपक्ष्मलिताम् ।
कल्पानोकहवाटीं
कलये मकरन्दपङ्किलावालाम् ॥ 11 ॥

तत्र मधुमाधवश्री-
-तरुणीभ्यां तरलदृक्चकोराभ्याम् ।
आलिङ्गितोऽवतान्मा-
-मनिशं प्रथमर्तुरात्तपुष्पास्त्रः ॥ 12 ॥

नमत तदुत्तरभागे
नाकिपथोल्लङ्घिशृङ्गसङ्घातम् ।
सीसाकृतिं तुरीयं
सितकिरणालोकनिर्मलं सालम् ॥ 13 ॥

सालद्वयान्तराले
सरलालिकपोतचाटुसुभगायाम् ।
सन्तानवाटिकायां
सक्तं चेतोऽस्तु सततमस्माकम् ॥ 14 ॥

तत्र तपनातिरूक्षः
साम्राज्ञीचरणसान्द्रितस्वान्तः ।
शुक्रशुचिश्रीसहितो
ग्रीष्मर्तुर्दिशतु कीर्तिमाकल्पम् ॥ 15 ॥

उत्तरसीमनि तस्यो-
-न्नतशिखरोत्कम्पिहाटकपताकः ।
प्रकटयतु पञ्चमो नः
प्राकारः कुशलमारकूटमयः ॥ 16 ॥

प्राकारयोश्च मध्ये
पल्लवितान्यभृतपञ्चमोन्मेषा ।
हरिचन्दनद्रुवाटी-
-हरतादामूलमस्मदनुतापम् ॥ 17 ॥

तत्र नभः श्रीमुख्यै-
-स्तरुणीवर्गैः समन्वितः परितः ।
वज्राट्टहासमुखरो
वाञ्छापूर्तिं तनोतु वर्षर्तुः ॥ 18 ॥

मारुतयोजनदूरे
महनीयस्तस्य चोत्तरे भागे ।
भद्रं कृषीष्ट षष्ठः
प्राकारः पञ्चलोहधातुमयः ॥ 19 ॥

अनयोर्मध्ये सन्तत-
-मङ्कूरद्दिव्यकुसुमगन्धायाम् ।
मन्दारवाटिकायां
मानसमङ्गीकरोतु मे विहृतिम् ॥ 20 ॥

तस्यामिषोर्जलक्ष्मी-
-तरुणीभ्यां शरदृतुः सदा सहितः ।
अभ्यर्चयन् स जीया-
-दम्बामामोदमेदुरैः कुसुमैः ॥ 21 ॥

तस्यर्षिसङ्ख्ययोजन-
-दूरे देदीप्यमानशृङ्गौघः ।
कलधौतकलितमूर्तिः
कल्याणं दिशतु सप्तमः सालः ॥ 22 ॥

मध्ये तयोर्मरुत्पथ
लङ्घितविटपाग्रविरुतकलकण्ठा ।
श्रीपारिजातवाटी
श्रियमनिशं दिशतु शीतलोद्देशा ॥ 23 ॥

तस्यामतिप्रियाभ्यां
सह खेलन् सहसहस्यलक्ष्मीभ्याम् ।
सामन्तो झषकेतो-
-र्हेमन्तो भवतु हेमवृद्ध्यै नः ॥ 24 ॥

उत्तरतस्तस्य महा-
-नुद्भटहुतभुक्शिखारुणमयूखः ।
तपनीयखण्डरचित-
-स्तनुतादायुष्यमष्टमो वरणः ॥ 25 ॥

कादम्बविपिनवाटी-
-मनयोर्मध्यभुवि कल्पितावासाम् ।
कलयामि सूनकोरक-
-कन्दलितामोदतुन्दिलसमीराम् ॥ 26 ॥

तस्यामतिशिशिराकृति-
-रासीनस्तपतपस्यलक्ष्मीभ्याम् ।
शिवमनिशं कुरुतान्मे
शिशिरर्तुः सततशीतलदिगन्तः ॥ 27 ॥

तस्यां कदम्बवाट्यां
तत्प्रसवामोदमिलितमधुगन्धम् ।
सप्तावरणमनोज्ञं
शरणं समुपैमि मन्त्रिणीशरणम् ॥ 28 ॥

तत्रालये विशाले
तपनीयारचिततरलसोपाने ।
माणिक्यमण्डपान्त-
-र्महिते सिंहासने सुमणिखचिते ॥ 29 ॥

बिन्दुत्रिपञ्चकोण-
-द्विपनृपवसुवेददलकुरेखाढ्ये ।
चक्रे सदा निविष्टां
षष्ठ्यष्टत्रिंशदक्षरेशानीम् ॥ 30 ॥

तापिञ्छमेचकाभां
तालीदलघटितकर्णताटङ्काम् ।
ताम्बूलपूरितमुखीं
ताम्राधरबिम्बदृष्टदरहासाम् ॥ 31 ॥

कुङ्कुमपङ्किलदेहां
कुवलयजीवातुशावकवतंसाम् ।
कोकनदशोणचरणां
कोकिलनिक्वाणकोमलालापाम् ॥ 32 ॥

वामाङ्गगलितचूलीं
वनमाल्यकदम्बमालिकाभरणाम् ।
मुक्ताललन्तिकाञ्चित
मुग्धालिकमिलितचित्रकोदाराम् ॥ 33 ॥

करविधृतकीरशावक-
-कलनिनदव्यक्तनिखिलनिगमार्थाम् ।
वामकुचसङ्गिवीणावादन-
-सौख्यार्धमीलिताक्षियुगाम् ॥ 34 ॥

आपाटलांशुकधरा-
-मादिरसोन्मेषवासितकटाक्षाम् ।
आम्नायसारगुलिका-
-माद्यां सङ्गीतमातृकां वन्दे ॥ 35 ॥

तस्य च सुवर्णसाल-
-स्योत्तरतस्तरुणकुङ्कुमच्छायः ।
शमयतु मम सन्तापं
सालो नवमः स पुष्परागमयः ॥ 36 ॥

अनयोरन्तरवसुधाः
प्रणुमः प्रत्यग्रपुष्परागमयीः ।
सिंहासनेश्वरीमनु-
-चिन्तननिस्तन्द्रसिद्धनीरन्ध्राः ॥ 37 ॥

तत्सालोत्तरदेशे
तरुणजपाकिरणधोरणीशोणः ।
प्रशमयतु पद्मराग-
-प्राकारो मम पराभवं दशमः ॥ 38 ॥

अन्तरभूकृतवासा-
-ननयोरपनीतचित्तवैमत्यान् ।
चक्रेशीपदभक्तां-
-श्चारणवर्गानहर्निशं कलये ॥ 39 ॥

सारङ्गवाहयोजनदूरे-
-ऽसङ्घटितकेतनस्तस्य ।
गोमेदकेन रचितो
गोपायतु मां समुन्नतः सालः ॥ 40 ॥

वप्रद्वयान्तरोर्व्यां
वटुकैर्विविधैश्च योगिनीबृन्दैः ।
सततं समर्चितायाः
सङ्कर्षण्याः प्रणौमि चरणाब्जम् ॥ 41 ॥

तापसयोजनदूरे
तस्य समुत्तुङ्ग गोपुरोपेतः ।
वाञ्छापूर्त्यै भवता-
-द्वज्रमणीनिकरनिर्मितो वप्रः ॥ 42 ॥

वरणद्वितयान्तरतो
वासजुषो विहितमधुरसास्वादाः ।
रम्भादिविबुधवेश्या
रचयन्तु महान्तमस्मदानन्दम् ॥ 43 ॥

तत्र सदा प्रवहन्ती
तटिनी वज्राभिधा चिरं जीयात् ।
चटुलोर्मिजालनृत्य-
-त्कलहंसीकुलकलक्वणितपुष्टा ॥ 44 ॥

रोधसि तस्या रुचिरे
वज्रेशी जयति वज्रभूषाढ्या ।
वज्रप्रदानतोषित-
-वज्रिमुखत्रिदशविनुतचारित्रा ॥ 45 ॥

तस्योदीच्यां हरिति
स्तवकितसुषमावलीढवियदन्तः ।
वैडूर्यरत्नरचितो
वैमल्यं दिशतु चेतसो वरणः ॥ 46 ॥

अधिमध्यमेतयोः पुन-
-रम्बाचरणावलम्बितस्वान्तान् ।
कार्कोटकादिनागान्
कलयामः किं च बलिमुखान् दनुजान् ॥ 47 ॥

गन्धवहसङ्ख्ययोजन-
-दूरे गगनोर्ध्वजाङ्घिकस्तस्य ।
वासवमणिप्रणीतो
वरणो बहलयतु वैदुषीं विशदाम् ॥ 48 ॥

मध्यक्षोण्यामनयो-
-र्महेन्द्रनीलात्मकानि च सरांसि ।
शातोदरीसहाया-
-न्भूपालानपि पुनः पुनः प्रणुमः ॥ 49 ॥

आशुगयोजनदूरे
तस्योर्ध्वं कान्तिधवलितदिगन्तः ।
मुक्ताविरचितगात्रो
मुहुरस्माकं मुदे भवतु सालः ॥ 50 ॥

आवृत्त्योरधिमध्यं
पूर्वस्यां दिशि पुरन्दरः श्रीमान् ।
अभ्रमुविटाधिरूढो
विभ्रममस्माकमनिशमातनुतात् ॥ 51 ॥

तत्कोणे व्यजनस्रु-
-क्तोमरपात्रस्रुवान्नशक्तिधरः ।
स्वाहास्वधासमेतः
सुखयतु मां हव्यवाहनः सुचिरम् ॥ 52 ॥

दक्षिणदिगन्तराले
दण्डधरो नीलनीरदच्छायः ।
त्रिपुरापदाब्जभक्तस्तिरयतु
मम निखिलमंहसां निकरम् ॥ 53 ॥

तस्यैव पश्चिमायां
दिशि दलितेन्दीवरप्रभाश्यामः ।
खेटासियष्टिधारी
खेदानपनयतु यातुधानो मे ॥ 54 ॥

तस्या उत्तरदेशे
धवलाङ्गो विपुलझषवरारूढः ।
पाशायुधात्तपाणिः
पाशी विदलयतु पाशजालानि ॥ 55 ॥

वन्दे तदुत्तरहरि-
-त्कोणे वायुं चमूरुवरवाहम् ।
कोरकिततत्त्वबोधा-
-न्गोरक्षप्रमुखयोगिनोऽपि मुहुः ॥ 56 ॥

तरुणीरिडाप्रधाना-
-स्तिस्रो वातस्य तस्य कृतवासाः ।
प्रत्यग्रकापिशायन-
-पानपरिभ्रान्तलोचनाः कलये ॥ 57 ॥

तल्लोकपूर्वभागे
धनदं ध्यायामि शेवधिकुलेशम् ।
अपि माणिभद्रमुख्या-
-नम्बाचरणावलम्बिनो यक्षान् ॥ 58 ॥

तस्यैव पूर्वसीमनि
तपनीयारचितगोपुरे नगरे ।
कात्यायनीसहायं
कलये शीतांशुखण्डचूडालम् ॥ 59 ॥

तत्पुरषोडशवरण-
-स्थलभाजस्तरुणचन्द्रचूडालान् ।
रुद्राध्याये पठिता-
-न्रुद्राणीसहचरान्भजे रुद्रान् ॥ 60 ॥

पवमानसङ्ख्ययोजन-
-दूरे बालतृण्मेचकस्तस्य ।
सालो मरकतरचितः
सम्पदमचलां श्रियं च पुष्णातु ॥ 61 ॥

आवृतियुग्मान्तरतो
हरितमणीनिवहमेचके देशे ।
हाटकतालीविपिनं
हालाघटघटितविटपमाकलये ॥ 62 ॥

तत्रैव मन्त्रिणीगृह-
-परिणाहं तरलकेतनं सदनम् ।
मरकतसौधमनोज्ञं
दद्यादायूंषि दण्डनाथायाः ॥ 63 ॥

सदने तत्र हरिन्मणि-
-सङ्घटिते मण्डपे शतस्तम्भे ।
कार्तस्वरमयपीठे
कनकमयाम्बुरुहकर्णिकामध्ये ॥ 64 ॥

बिन्दुत्रिकोणवर्तुल-
-षडस्रवृत्तद्वयान्विते चक्रे ।
सञ्चारिणी दशोत्तर-
शतार्णमनुराजकमलकलहंसी ॥ 65 ॥

कोलवदना कुशेशय-
-नयना कोकारिमण्डितशिखण्डा ।
सन्तप्तकाञ्चनाभा
सन्ध्यारुणचेलसंवृतनितम्बा ॥ 66 ॥

हलमुसलशङ्खचक्रा-
-ऽङ्कुशपाशाभयवरस्फुरितहस्ता ।
कूलङ्कषानुकम्पा
कुङ्कुमजम्बालितस्तनाभोगा ॥ 67 ॥

धूर्तानामतिदूरा-
-वार्ताशेषावलग्नकमनीया ।
आर्तालीशुभदात्री
वार्ताली भवतु वाञ्छितार्थाय ॥ 68 ॥

तस्याः परितो देवीः
स्वप्नेश्युन्मत्तभैरवीमुख्याः ।
प्रणमत जम्भिन्याद्याः
भैरववर्गांश्च हेतुकप्रमुखान् ॥ 69 ॥

पूर्वोक्तसङ्ख्ययोजन-
-दूरे पूयांशुपाटलस्तस्य ।
विद्रावयतु मदार्तिं
विद्रुमसालो विशङ्कटद्वारः ॥ 70 ॥

आवरणयोरहर्निश-
-मन्तरभूमौप्रकाशशालिन्याम् ।
आसीनमम्बुजासन-
-मभिनवसिन्दूरगौरमहमीडे ॥ 71 ॥

वरणस्य तस्य मारुत-
-योजनतो विपुलगोपुरद्वारः ।
सालो नानारत्नैः
सङ्घटिताङ्गः कृषीष्ट मदभीष्टम् ॥ 72 ॥

अन्तरकक्ष्यामनयो-
-रविरलशोभापिचण्डिलोद्देशाम् ।
माणिक्यमण्डपाख्यां
महतीमधिहृदयमनिशमाकलये ॥ 73 ॥

तत्र स्थितं प्रसन्नं
तरुणतमालप्रवालकिरणाभम् ।
कर्णावलम्बिकुण्डल-
-कन्दलिताभीशुकवचितकपोलम् ॥ 74 ॥

शोणाधरं शुचिस्मित-
-मेणाङ्कवदनमेधमानकृपम् ।
मुग्धैणमदविशेषक-
-मुद्रितनिटिलेन्दुरेखिकारुचिरम् ॥ 75 ॥

नालीकदलसहोदर-
-नयनाञ्चलघटितमनसिजाकूतम् ।
कमलाकठिनपयोधर-
-कस्तूरीघुसृणपङ्किलोरस्कम् ॥ 76 ॥

चाम्पेयगन्धिकैश्यं
शम्पासब्रह्मचारिकौशेयम् ।
श्रीवत्सकौस्तुभधरं
श्रितजनरक्षाधुरीणचरणाब्जम् ॥ 77 ॥

कम्बुसुदर्शनविलस-
-त्करपद्मं कण्ठलोलवनमालम् ।
मुचुकुन्दमोक्षफलदं
मुकुन्दमानन्दकन्दमवलम्बे ॥ 78 ॥

तद्वरणोत्तरभागे
तारापतिबिम्बचुम्बिनिजशृङ्गः ।
विविधमणीगणघटितो
वितरतु सालो विनिर्मलां धिषणाम् ॥ 79 ॥

प्राकारद्वितयान्तर-
-कक्ष्यां पृथुरत्ननिकरसङ्कीर्णाम् ।
नमत सहस्रस्तम्भक-
-मण्डपनाम्नातिविश्रुतां भुवने ॥ 80 ॥

प्रणुमस्तत्र भवानी-
-सहचरमीशानमिन्दुखण्डधरम् ।
शृङ्गारनायिकामनु-
-शीलनभाजोऽपि भृङ्गिनन्दिमुखान् ॥ 81 ॥

तस्यैणवाहयोजन-
-दूरे वन्दे मनोमयं वप्रम् ।
अङ्कूरन्मणिकिरणा-
-मन्तरकक्ष्यां च निर्मलामनयोः ॥ 82 ॥

तत्रैवामृतवापीं
तरलतरङ्गावलीढतटयुग्माम् ।
मुक्तामयकलहंसी-
-मुद्रितकनकारविन्दसन्दोहाम् ॥ 83 ॥

शक्रोपलमयभृङ्गी-
-सङ्गीतोन्मेषघोषितदिगन्ताम् ।
काञ्चनमयाङ्गविलस-
-त्कारण्डवषण्डताण्डवमनोज्ञाम् ॥ 84 ॥

कुरुविन्दात्मकहल्लक-
-कोरकसुषमासमूहपाटलिताम् ।
कलये सुधास्वरूपां
कन्दलितामन्दकैरवामोदाम् ॥ 85 ॥

तद्वापिकान्तराले तरले
मणिपोतसीम्नि विहरन्तीम् ।
सिन्दूरपाटलाङ्गीं
सितकिरणाङ्कूरकल्पितवतंसाम् ॥ 86 ॥

पर्वेन्दुबिम्बवदनां
पल्लवशोणाधरस्फुरितहासाम् ।
कुटिलकबरीं कुरङ्गी-
-शिशुनयनां कुण्डलस्फुरितगण्डाम् ॥ 87 ॥

निकटस्थपोतनिलयाः
शक्तीः शयविधृतहेमशृङ्गजलैः ।
परिषिञ्चन्तीं परित-
-स्तारां तारुण्यगर्वितां वन्दे ॥ 88 ॥

प्रागुक्तसङ्ख्ययोजनदूरे
प्रणमामि बुद्धिमयसालम् ।
अनयोरन्तरकक्ष्या-
-मष्टापदपुष्टमेदिनीं रुचिराम् ॥ 89 ॥

कादम्बरीनिधानां
कलयाम्यानन्दवापिकां तस्याम् ।
शोणाश्मनिवहनिर्मित-
-सोपानश्रेणिशोभमानतटीम् ॥ 90 ॥

माणिक्यतरणिनिलयां
मध्ये तस्या मदारुणकपोलाम् ।
अमृतेशीत्यभिधाना-
-मन्तः कलयामि वारुणीं देवीम् ॥ 91 ॥

सौवर्णकेनिपातन-
-हस्ताः सौन्दर्यगर्विता देव्यः ।
तत्पुरतः स्थितिभाजो
वितरन्त्वस्माकमायुषो वृद्धिम् ॥ 92 ॥

तस्य पृषदश्वयोजन-
-दूरेऽहङ्कारसालमतितुङ्गम् ।
वन्दे तयोश्च मध्ये
कक्ष्यां वलमानमलयपवमानाम् ॥ 93 ॥

विनुमो विमर्शवापीं
सौषुम्नसुधास्वरूपिणीं तत्र ।
वेलातिलङ्घ्यवीची-
-कोलाहलभरितकूलवनवाटीम् ॥ 94 ॥

तत्रैव सलिलमध्ये
तापिञ्छदलप्रपञ्चसुषमाभाम् ।
श्यामलकञ्चुकलसितां
श्यामाविटबिम्बडम्बरहरास्याम् ॥ 95 ॥

आभुग्नमसृणचिल्ली-
-हसितायुग्मशरकार्मुकविलासाम् ।
मन्दस्मिताञ्चितमुखीं
मणिमयताटङ्कमण्डितकपोलाम् ॥ 96 ॥

कुरुविन्दतरणिनिलयां
कुलाचलस्पर्धिकुचनमन्मध्याम् ।
कुङ्कुमविलिप्तगात्रीं
कुरुकुल्लां मनसि कुर्महे सततम् ॥ 97 ॥

तत्सालोत्तरभागे
भानुमयं वप्रमाश्रये दीप्तम् ।
मध्यं च विपुलमनयो-
-र्मन्ये विश्रान्तमातपोद्गारम् ॥ 98 ॥

तत्र कुरुविन्दपीठे
तामरसे कनककर्णिकाघटिते ।
आसीनमरुणवासस-
-मम्लानप्रसवमालिकाभरणम् ॥ 99 ॥

चक्षुष्मतीप्रकाशन-
-शक्तिच्छायासमारचितकेलिम् ।
माणिक्यमुकुटरम्यं
मन्ये मार्ताण्डभैरवं हृदये ॥ 100 ॥

इन्दुमयसालमीडे
तस्योत्तरतस्तुषारगिरिगौरम् ।
अत्यन्तशिशिरमारुत-
-मनयोर्मध्यं च चन्द्रिकोद्गारम् ॥ 101 ॥

तत्र प्रकाशमानं
तारानिकरैः परिष्कृतोद्देशम् ।
अमृतमयकान्तिकन्दल-
-मन्तः कलयामि कुन्दसितमिन्दुम् ॥ 102 ॥

शृङ्गारसालमीडे
शृङ्गोल्लसितं तदुत्तरे भागे ।
मध्यस्थले तयोरपि
महितां शृङ्गारपूर्विकां परिखाम् ॥ 103 ॥

तत्र मणिनौस्थिताभि-
-स्तपनीयाविरचिताग्रहस्ताभिः ।
शृङ्गारदेवताभिः
सहितं परिखाधिपं भजे मदनम् ॥ 104 ॥

शृङ्गारवरणवर्यस्योत्तरतः
सकलविबुधसंसेव्यम् ।
चिन्तामणिगणरचितं
चिन्तां दूरीकरोतु मे सदनम् ॥ 105 ॥

मणिसदनसालयोरधि-
-मध्यं दशतालभूमिरुहदीर्घैः ।
पर्णैः सुवर्णवर्णै-
-र्युक्तां काण्डैश्च योजनोत्तुङ्गैः ॥ 106 ॥

मृदुलैस्तालीपञ्चक-
-मानैर्मिलितां च केसरकदम्बैः ।
सन्ततगलितमरन्द-
-स्रोतोनिर्यन्मिलिन्दसन्दोहाम् ॥ 107 ॥

पाटीरपवनबालक-
-धाटीनिर्यत्परागपिञ्जरिताम् ।
कलहंसीकुलकलकल-
-कूलङ्कषनिनदनिचयकमनीयाम् ॥ 108 ॥

पद्माटवीं भजामः
परिमलकल्लोलपक्ष्मलोपान्ताम् ।
[ देव्यर्घ्यपात्रधारी
तस्याः पूर्वदिशि दशकलायुक्तः । ]
वलयितमूर्तिर्भगवा-
-न्वह्निः क्रोशोन्नतश्चिरं पायात् ॥ 109 ॥

तत्राधारे देव्याः
पात्रीरूपः प्रभाकरः श्रीमान् ।
द्वादशकलासमेतो
ध्वान्तं मम बहुलमान्तरं भिन्द्यात् ॥ 110 ॥

तस्मिन् दिनेशपात्रे
तरङ्गितामोदममृतमयमर्घ्यम् ।
चन्द्रकलात्मकममृतं
सान्द्रीकुर्यादमन्दमानन्दम् ॥ 111 ॥

अमृते तस्मिन्नभितो
विहरन्त्यो विविधमणितरणिभाजः ।
षोडश कलाः सुधांशोः
शोकादुत्तारयन्तु मामनिशम् ॥ 112 ॥

तत्रैव विहृतिभाजो
धातृमुखानां च कारणेशानाम् ।
सृष्ट्यादिरूपिकास्ताः
शमयन्त्वखिलाः कलाश्च सन्तापम् ॥ 113 ॥

कीनाशवरुणकिन्नर-
-राजदिगन्तेषु रत्नगेहस्य ।
कलयामि तान्यजस्रं
कलयन्त्वायुष्यमर्घ्यपात्राणि ॥ 114 ॥

पात्रस्थलस्य पुरतः
पद्मारमणविधिपार्वतीशानाम् ।
भवनानि शर्मणे नो
भवन्तु भासा प्रदीपितजगन्ति ॥ 115 ॥

सदनस्यानलकोणे
सततं प्रणमामि कुण्डमाग्नेयम् ।
तत्र स्थितं च वह्निं
तरलशिखाजटिलमम्बिकाजनकम् ॥ 116 ॥

तस्यासुरदिशि तादृश-
-रत्नपरिस्फुरितपर्वनवकाढ्यम् ।
चक्रात्मकं शताङ्गं
शतयोजनमुन्नतं भजे दिव्यम् ॥ 117 ॥

तत्रैव दिशि निषण्णं
तपनीयध्वजपरम्पराश्लिष्टम् ।
रथमपरं च भवान्या
रचयामो मनसि रत्नमयचूडम् ॥ 118 ॥

भवनस्य वायुभागे
परिष्कृतो विविधवैजयन्तीभिः ।
रचयतु मुदं रथेन्द्रः
सचिवेशान्याः समस्तवन्द्यायाः ॥ 119 ॥

कुर्मोऽधिहृदयमनिशं
क्रोडास्यायाः शताङ्गमूर्धन्यम् ।
रुद्रदिशि रत्नधाम्नो
रुचिरशलाकाप्रपञ्चकञ्चुकितम् ॥ 120 ॥

परितो देवीधाम्नः
प्रणीतवासा मनुस्वरूपिण्यः ।
कुर्वन्तु रश्मिमाला-
-कृतयः कुशलानि देवता निखिलाः ॥ 121 ॥

प्राग्द्वारस्य भवानी-
-धाम्नः पार्श्वद्वयारचितवासे ।
मातङ्गीकिटिमुख्यौ
मणिसदने मनसि भावयामि चिरम् ॥ 122 ॥

योजनयुगलाभोगा
तत्क्रोशपरिणाहयैव भित्त्या च ।
चिन्तामणिगृहभूमि-
-र्जीयादाम्नायमयचतुर्द्वारा ॥ 123 ॥

द्वारे द्वारे धाम्नः
पिण्डीभूता नवीनबिम्बाभाः ।
विदधतु विपुलां कीर्तिं
दिव्या लौहित्यसिद्ध्यो देव्यः ॥ 124 ॥

मणिसदनस्यान्तरतो
महनीये रत्नवेदिकामध्ये ।
बिन्दुमयचक्रमीडे
पीठानामुपरि विरचितावासम् ॥ 125 ॥

चक्राणां सकलानां
प्रथममधः सीमफलकवास्तव्याः ।
अणिमादिसिद्धयो मा-
-मवन्तु देवी प्रभास्वरूपिण्यः ॥ 126 ॥

अणिमादिसिद्धिफलक-
-स्योपरिहरिणाङ्कखण्डकृतचूडाः ।
भद्रं पक्ष्मलयन्तु
ब्राह्मीप्रमुखाश्च मातरोऽस्माकम् ॥ 127 ॥

तस्योपरि मणिफलके
तारुण्योत्तुङ्गपीनकुचभाराः ।
सङ्क्षोभिणीप्रधानाः
भ्रान्ति विद्रावयन्तु दश मुद्राः ॥ 128 ॥

फलकत्रयस्वरूपे
पृथुले त्रैलोक्यमोहने चक्रे ।
दीव्यन्तु प्रकटाख्या-
-स्तासां कर्त्रीं च भगवती त्रिपुरा ॥ 129 ॥

तदुपरि विपुले धिष्ण्ये
तरलदृशस्तरुणकोकनदभासः ।
कामाकर्षिण्याद्याः
कलये देवीः कलाधरशिखण्डाः ॥ 130 ॥

सर्वाशापरिपूरकचक्रे-
-ऽस्मिन् गुप्तयोगिनीसेव्याः ।
त्रिपुरेशी मम दुरितं
तुद्यात् कण्ठावलम्बिमणिहारा ॥ 131 ॥

तस्योपरि मणिपीठे
ताम्राम्भोरुहदलप्रभाशोणाः ।
ध्यायाम्यनङ्गकुसुमा-
-प्रमुखा देवीश्च विधृतकूर्पासाः ॥ 132 ॥

सङ्क्षोभकारकेऽस्मिं-
-श्चक्रे श्रीत्रिपुरसुन्दरी साक्षात् ।
गोप्त्री गुप्ततराख्याः
गोपायतु मां कृपार्द्रया दृष्ट्या ॥ 133 ॥

सङ्क्षोभिणीप्रधानाः
शक्तीस्तस्योर्ध्ववलयकृतवासाः ।
आलोलनीलवेणी-
-रन्तः कलयामि यौवनोन्मत्ताः ॥ 134 ॥

सौभाग्यदायकेऽस्मिं-
-श्चक्रेशी त्रिपुरवासिनी जीयात् ।
शक्तीश्च सम्प्रदायाभिधाः
समस्ताः प्रमोदयन्त्वनिशम् ॥ 135 ॥

मणिपीठोपरि तासां
महति चतुर्हस्तविस्तृते वलये ।
सन्ततविरचितवासाः
शक्तीः कलयामि सर्वसिद्धिमुखाः ॥ 136 ॥

सर्वार्थसाधकाख्ये
चक्रेऽमुष्मिन् समस्तफलदात्री ।
त्रिपुरा श्रीर्मम कुशलं
दिशतादुत्तीर्णयोगिनीसेव्या ॥ 137 ॥

तासां निलयस्योपरि
धिष्ण्ये कौसुम्भकञ्चुकमनोज्ञाः ।
सर्वाज्ञाद्याः देव्यः
सकलाः सम्पादयन्तु मम कीर्तिम् ॥ 138 ॥

चक्रे समस्तरक्षा-
-करनाम्न्यस्मिन् समस्तजनसेव्याम् ।
मनसि निगर्भासहितां
मन्ये श्रीत्रिपुरमालिनीं देवीम् ॥ 139 ॥

सर्वज्ञासदनस्योपरि
चक्रे विपुले समाकलितगेहाः ।
वन्दे वशिनीमुख्याः
शक्तीः सिन्दूररेणुरुचः ॥ 140 ॥

श्रीसर्वरोगहराख्य-
-चक्रेऽस्मिंस्त्रिपुरपूर्विकां सिद्धाम् ।
वन्दे रहस्यनाम्ना
वेद्याभिः शक्तिभिः सदा सेव्याम् ॥ 141 ॥

वशिनीगृहोपरिष्टा-
-द्विंशतिहस्तोन्नते महापीठे ।
शमयन्तु शत्रुबृन्दं
शस्त्राण्यस्त्राणि चादिदम्पत्योः ॥ 142 ॥

शस्त्रसदनोपरिष्टा-
-द्वलये वलवैरिरत्नसङ्घटिते ।
कामेश्वरीप्रधानाः
कलये देवीः समस्तजनवन्द्याः ॥ 143 ॥

चक्रेऽत्र सर्वसिद्धिप्रद-
-नामनि सर्वफलदात्री ।
त्रिपुराम्बावतु सततं
परापररहस्ययोगिनीसेव्या ॥ 144 ॥

कामेश्वरीगृहोपरिवलये
विविधमनुसम्प्रदायज्ञाः ।
चत्वारो युगनाथा
जयन्तु मित्रेशपूर्वकाः गुरवः ॥ 145 ॥

नाथभवनोपरिष्टा-
-न्नानारत्नचयमेदुरे पीठे ।
कामेश्याद्या नित्याः
कलयन्तु मुदं तिथिस्वरूपिण्यः ॥ 146 ॥

नित्यासदनस्योपरि
निर्मलमणिनिवहविरचिते धिष्ण्ये ।
कुशलं षडङ्गदेव्यः
कलयन्त्वस्माकमुत्तरलनेत्राः ॥ 147 ॥

सदनस्योपरि तासां
सर्वानन्दमयनामके बिन्दौ ।
पञ्चब्रह्माकारां
मञ्चं प्रणमामि मणिगणाकीर्णम् ॥ 148 ॥

परितो मणिमञ्चस्य
प्रलम्बमाना नियन्त्रिता पाशैः ।
मायामयी जवनिका
मम दुरितं हरतु मेचकच्छाया ॥ 149 ॥

मञ्चस्योपरि लम्ब-
-न्मदनीपुन्नागमालिकाभरितम् ।
हरिगोपमयवितानं
हरतादालस्यमनिशमस्माकम् ॥ 150 ॥

पर्यङ्कस्य भजामः
पादान्बिम्बाम्बुदेन्दुहेमरुचः ।
अजहरिरुद्रेशमया-
-ननलासुरमारुतेशकोणस्थान् ॥ 151 ॥

फलकं सदाशिवमयं
प्रणौमि सिन्दूररेणुकिरणाभम् ।
आरभ्याङ्गेशीनां
सदनात्कलितं च रत्नसोपानम् ॥ 152 ॥

पट्टोपधानगण्डक-
-चतुष्टयस्फुरितपाटलास्तरणम् ।
पर्यङ्कोपरि घटितं
पातु चिरं हंसतूलशयनं नः ॥ 153 ॥

तस्योपरि निवसन्तं
तारुण्यश्रीनिषेवितं सततम् ।
आवृन्तपुल्लहल्लक-
-मरीचिकापुञ्जमञ्जुलच्छायम् ॥ 154 ॥

सिन्दूरशोणवसनं
शीतांशुस्तबकचुम्बितकिरीटम् ।
कुङ्कुमतिलकमनोहर-
-कुटिलालिकहसितकुमुदबन्धुशिशुम् ॥ 155 ॥

पूर्णेन्दुबिम्बवदनं
फुल्लसरोजातलोचनत्रितयम् ।
तरलापाङ्गतरङ्गित-
-शफराङ्कनशास्त्रसम्प्रदायार्थम् ॥ 156 ॥

मणिमयकुण्डलपुष्य-
-न्मरीचिकल्लोलमांसलकपोलम् ।
विद्रुमसहोदराधर-
-विसृमरसुस्मितकिशोरसञ्चारम् ॥ 157 ॥

आमोदिकुसुमशेखर-
-मानीलभ्रूलतायुगमनोज्ञम् ।
वीटीसौरभवीची-
-द्विगुणितवक्त्रारविन्दसौरभ्यम् ॥ 158 ॥

पाशाङ्कुशेक्षुचाप-
-प्रसवशरस्फुरितकोमलकराब्जम् ।
काश्मीरपङ्किलाङ्गं
कामेशं मनसि कुर्महे सततम् ॥ 159 ॥

तस्याङ्कभुवि निषण्णां
तरुणकदम्बप्रसूनकिरणाभाम् ।
शीतांशुखण्डचूडां
सीमन्तन्यस्तसान्द्रसिन्दूराम् ॥ 160 ॥

कुङ्कुमललामभास्व-
-न्निटिलां कुटिलतरचिल्लिकायुगलाम् ।
नालीकतुल्यनयनां
नासाञ्चलनटितमौक्तिकाभरणाम् ॥ 161 ॥

अङ्कुरितमन्दहास-
-मरुणाधरकान्तिविजितबिम्बाभाम् ।
कस्तूरीमकरीयुत-
-कपोलसङ्क्रान्तकनकताटङ्काम् ॥ 162 ॥

कर्पूरसान्द्रवीटी-
-कबलितवदनारविन्दकमनीयाम् ।
कम्बुसहोदरकण्ठ-
-प्रलम्बमानाच्छमौक्तिककलापाम् ॥ 163 ॥

कह्लारदामकोमल-
-भुजयुगलस्फुरितरत्नकेयूराम् ।
करपद्ममूलविलस-
-त्काञ्चनमयकटकवलयसन्दोहाम् ॥ 164 ॥

पाणिचतुष्टयविलस-
-त्पाशाङ्कुशपुण्ड्रचापपुष्पास्त्राम् ।
कूलङ्कषकुचशिखरां
कुङ्कुमकर्दमितरत्नकूर्पासाम् ॥ 165 ॥

अणुदायादवलग्ना-
-मम्बुदशोभासनाभिरोमलताम् ।
माणिक्यखचितकाञ्ची-
-मरीचिकाक्रान्तमांसलनितम्बाम् ॥ 166 ॥

करभोरुकाण्डयुगलां
जङ्घाजितकामजैत्रतूणीराम् ।
प्रपदपरिभूतकूर्मां
पल्लवसच्छायपदयुगमनोज्ञाम् ॥ 167 ॥

कमलभवकञ्जलोचन-
-किरीटरत्नांशुरञ्जितपदाब्जाम् ।
उन्मस्तकानुकम्पा-
-मुत्तरलापाङ्गपोषितानङ्गाम् ॥ 168 ॥

आदिमरसावलम्बा-
-मनिदं प्रथमोक्तिवल्लरीकलिकाम् ।
आब्रह्मकीटजननी-
-मन्तः कलयामि सुन्दरीमनिशम् ॥ 169 ॥

कस्तु क्षितौ पटीया-
-न्वस्तु स्तोतुं शिवाङ्कवास्तव्यम् ।
अस्तु चिरन्तनसुकृतैः
प्रस्तुतकाम्याय तन्मम पुरस्तात् ॥ 170 ॥

प्रभुसम्मितोक्तिगम्यं
परमशिवोत्सङ्गतुङ्गपर्यङ्कम् ।
तेजः किञ्चन दिव्यं
पुरतो मे भवतु पुण्ड्रकोदण्डम् ॥ 171 ॥

मधुरिमभरितशरासं
मकरन्दस्यन्दिमार्गणोदारम् ।
कैरविणीविटचूडं
कैवल्यायास्तु किञ्चन महो नः ॥ 172 ॥

अक्षुद्रमिक्षुचापं
परोक्षमवलग्नसीम्नि त्र्यक्षम् ।
क्षपयतु मे क्षेमेतर-
-मुक्षरथप्रेमपक्ष्मलं तेजः ॥ 173 ॥

भृङ्गरुचिसङ्गरकरापाङ्गं
शृङ्गारतुङ्गमरुणाङ्गम् ।
मङ्गलमभङ्गुरं मे
घटयतु गङ्गाधराङ्गसङ्गि महः ॥ 174 ॥

प्रपदाजितकूर्ममूर्जित-
-करुणं भर्मरुचिनिर्मथनदेहम् ।
श्रितवर्म मर्म शम्भोः
किञ्चन मम नर्म शर्म निर्मातु ॥ 175 ॥

कालकुरलालिकालिम-
-कन्दलविजितालि विधृतमणिवालि ।
मिलतु हृदि पुलिनजघनं
बहुलितगलगरलकेलि किमपि महः ॥ 176 ॥

कुङ्कुमतिलकितफाला
कुरुविन्दच्छायपाटलदुकूला ।
करुणापयोधिवेला
काचन चित्ते चकास्तु मे लीला ॥ 177 ॥

पुष्पन्धयरुचिवेण्यः
पुलिनाभोगत्रपाकरश्रेण्यः ।
जीयासुरिक्षुपाण्यः
काश्चन कामारिकेलिसाक्षिण्यः ॥ 178 ॥

तपनीयांशुकभांसि
द्राक्षामाधुर्यनास्तिकवचांसि ।
कतिचन शुचं महांसि
क्षपयतु कपालितोषितमनांसि ॥ 179 ॥

असितकचमायताक्षं
कुसुमशरं कूलमुद्वहकृपार्द्रम् ।
आदिमरसाधिदैवत-
-मन्तः कलये हराङ्कवासि महः ॥ 180 ॥

कर्णोपान्ततरङ्गित-
-कटाक्षविस्पन्दिकण्ठदघ्नकृपाम् ।
कामेश्वराङ्कनिलयां
कामपि विद्यां पुरातनीं कलये ॥ 181 ॥

अरविन्दकान्त्यरुन्तुद-
-विलोचनद्वन्द्वसुन्दरमुखेन्दु ।
छन्दः कन्दलमन्दिर-
-मन्तःपुरमैन्दुशेखरं वन्दे ॥ 182 ॥

बिम्बिनिकुरम्बडम्बर-
-विडम्बकच्छायमम्बरवलग्नम् ।
कम्बुगलमम्बुदकुचं
बिम्बोकं कमपि चुम्बतु मनो मे ॥ 183 ॥

कमपि कमनीयरूपं
कलयाम्यन्तः कदम्बकुसुमाढ्यम् ।
चम्पकरुचिरसुवेषैः
सम्पादितकान्त्यलङ्कृतदिगन्तम् ॥ 184 ॥

शम्पारुचिभर-
-गर्हासम्पादककान्तिकवचितदिगन्तम् ।
सिद्धान्तं निगमानां
शुद्धान्तं किमपि शूलिनः कलये ॥ 185 ॥

उद्यद्दिनकरशोणा-
-नुत्पलबन्धुस्तनन्धयापीडान् ।
करकलितपुण्ड्रचापा-
-न्कलये कानपि कपर्दिनः प्राणान् ॥ 186 ॥

रशनालसज्जघनया
रसनाजीवातुचापभासुरया ।
घ्राणायुष्करशरया
घ्रातं चित्तं कयापि वासनया ॥ 187 ॥

सरसिजसहयुध्वदृशा
शम्पालतिकासनाभिविग्रहया ।
भासा कयापि चेतो
नासामणिशोभिवदनया भरितम् ॥ 188 ॥

नवयावकाभसिचयान्वितया
गजयानया दयापरया ।
धृतयामिनीशकलया
धिया कयापि क्षतामया हि वयम् ॥ 189 ॥

अलमलमकुसुमबाणै-
-रबिम्बशोणैरपुण्ड्रकोदण्डैः ।
अकुमुदबान्धवचूडै-
-रन्यैरिह जगति दैवतं मन्यैः ॥ 190 ॥

कुवलयसदृक्षनयनैः
कुलगिरिकूटस्थबन्धुकुचभारैः ।
करुणास्पन्दिकटाक्षैः
कवचितचित्तोऽस्मि कतिपयैः कुतुकैः ॥ 191 ॥

नतजनसुलभाय नमो
नालीकसनाभिलोचनाय नमः ।
नन्दितगिरिशाय नमो
महसे नवनीपपाटलाय नमः ॥ 192 ॥

कादम्बकुसुमदाम्ने
कायच्छायाकणायितार्यम्णे ।
सीम्ने चिरन्तनगिरां
भूम्ने कस्मैचिदाददे प्रणतिम् ॥ 193 ॥

कुटिलकबरीभरेभ्यः
कुङ्कुमसब्रह्मचारिकिरणेभ्यः ।
कूलङ्कषस्तनेभ्यः
कुर्मः प्रणतिं कुलाद्रिकुतुकेभ्यः ॥ 194 ॥

कोकनदशोणचरणा-
-त्कोमलकुरलालिविजितशैवालात् ।
उत्पलसगन्धिनयना-
-दुररीकुर्मो न देवतमान्याम् ॥ 195 ॥

आपाटलाधराणा-
-मानीलस्निग्धबर्बरकचानाम् ।
आम्नायजीवनाना-
-माकूतानां हरस्य दासोऽहम् ॥ 196 ॥

पुङ्खितविलासहास-
-स्फुरितासु पुराहिताङ्कनिलयासु ।
मग्नं मनो मदीयं
कास्वपि कामारिजीवनाडीषु ॥ 197 ॥

ललिता पातु शिरो मे
ललाटमम्बा च मधुमतीरूपा ।
भ्रूयुग्मं च भवानी
पुष्पशरा पातु लोचनद्वन्द्वम् ॥ 198 ॥

पायान्नासां बाला
सुभगा दन्तांश्च सुन्दरी जिह्वाम् ।
अधरोष्ठमादिशक्ति-
-श्चक्रेशी पातु मे चिरं चिबुकम् ॥ 199 ॥

कामेश्वरी च कर्णौ
कामाक्षी पातु गण्डयोर्युगलम् ।
शृङ्गारनायिकाव्या-
-द्वदनं सिंहासनेश्वरी च गलम् ॥ 200 ॥

स्कन्दप्रसूश्च पातु
स्कन्धौ बाहू च पाटलाङ्गी मे ।
पाणी च पद्मनिलया
पायादनिशं नखावलीर्विजया ॥ 201 ॥

कोदण्डिनी च वक्षः
कुक्षिं चाव्यात् कुलाचलतनूजा ।
कल्याणी च वलग्नं
कटिं च पायात्कलाधरशिखण्डा ॥ 202 ॥

ऊरुद्वयं च पाया-
-दुमा मृडानी च जानुनी रक्षेत् ।
जङ्घे च षोडशी मे
पायात् पादौ च पाशसृणिहस्ता ॥ 203 ॥

प्रातः पातु परा मां
मध्याह्ने पातु मणिगृहाधीशा ।
शर्वाण्यवतु च सायं
पायाद्रात्रौ च भैरवी साक्षात् ॥ 204 ॥

भार्यां रक्षतु गौरीं
पायात् पुत्रांश्च बिन्दुगृहपीठा ।
श्रीविद्या च यशो मे
शीलं चाव्याच्चिरं महाराज्ञी ॥ 205 ॥

पवनमयि पावकमयि
क्षोणीमयि गगनमयि कृपीटमयि ।
रविमयि शशिमयि दिङ्मयि
समयमयि प्राणमयि शिवे पाहि ॥ 206 ॥

कालि कपालिनि शूलिनि
भैरवि मातङ्गि पञ्चमि त्रिपुरे ।
वाग्देवि विन्ध्यवासिनि
बाले भुवनेशि पालय चिरं माम् ॥ 207 ॥

अभिनवसिन्दूराभा-
-मम्ब त्वां चिन्तयन्ति ये हृदये ।
उपरि निपतन्ति तेषा-
-मुत्पलनयनाकटाक्षकल्लोलाः ॥ 208 ॥

वर्गाष्टकमिलिताभि-
-र्वशिनीमुख्याभिरावृतां भवतीम् ।
चिन्तयतां सितवर्णां
वाचो निर्यान्त्ययत्नतो वदनात् ॥ 209 ॥

कनकशलाकागौरीं
कर्णव्यालोलकुण्डलद्वितयाम् ।
प्रहसितमुखीं च भवतीं
ध्यायन्तो ये त एव भूधनदाः ॥ 210 ॥

शीर्षाम्भोरुहमध्ये
शीतलपीयूषवर्षिणीं भवतीम् ।
अनुदिनमनुचिन्तयता-
-मायुष्यं भवति पुष्कलमवन्याम् ॥ 211 ॥

मधुरस्मितां मदारुणनयनां
मातङ्गकुम्भवक्षोजाम् ।
चन्द्रवतंसिनीं त्वां
सविधे पश्यन्ति सुकृतिनः केचित् ॥ 212 ॥

ललितायाः स्तवरत्नं
ललितपदाभिः प्रणीतमार्याभिः ।
प्रतिदिनमवनौ पठतां
फलानि वक्तुं प्रगल्भते सैव ॥ 213 ॥

सदसदनुग्रहनिग्रह-
-गृहीतमुनिविग्रहो भगवान् ।
सर्वासामुपनिषदां
दुर्वासा जयति देशिकः प्रथमः ॥ 214 ॥

इति महर्षिदुर्वासः विरचितं श्रीललितास्तवरत्नम् ।

sri lalitha stavaratnam arya dwishati in sanskrit

Copy
Give Feedback