Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री वेंकटेश्वर मंगलाष्टकम्

Sri Venkateswara Mangalashtakam in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri venkateswara mangalashtakam in nepali

श्रीक्षोण्यौ रमणीयुगं सुरमणीपुत्रोऽपि वाणीपतिः
पौत्रश्चंद्रशिरोमणिः फणिपतिः शय्या सुराः सेवकाः ।
तार्क्ष्यो यस्य रथो महश्च भवनं ब्रह्मांडमाद्यः पुमान्
श्रीमद्वेंकटभूधरेंद्ररमणः कुर्याद्धरिर्मंगलम् ॥ 1 ॥

यत्तेजो रविकोटिकोटिकिरणान् धिक्कृत्य जेजीयते
यस्य श्रीवदनांबुजस्य सुषमा राकेंदुकोटीरपि ।
सौंदर्यं च मनोभवानपि बहून् कांतिश्च कादंबिनीं
श्रीमद्वेंकटभूधरेंद्ररमणः कुर्याद्धरिर्मंगलम् ॥ 2 ॥

नानारत्न किरीटकुंडलमुखैर्भूषागणैर्भूषितः
श्रीमत्कौस्तुभरत्न भव्यहृदयः श्रीवत्ससल्लांछनः ।
विद्युद्वर्णसुवर्णवस्त्ररुचिरो यः शंखचक्रादिभिः
श्रीमद्वेंकटभूधरेंद्ररमणः कुर्याद्धरिर्मंगलम् ॥ 3 ॥

यत्फाले मृगनाभिचारुतिलको नेत्रेऽब्जपत्रायते
कस्तूरीघनसारकेसरमिलच्छ्रीगंधसारो द्रवैः ।
गंधैर्लिप्ततनुः सुगंधसुमनोमालाधरो यः प्रभुः
श्रीमद्वेंकटभूधरेंद्ररमणः कुर्याद्धरिर्मंगलम् ॥ 4 ॥

एतद्दिव्यपदं ममास्ति भुवि तत्संपश्यतेत्यादरा-
-द्भक्तेभ्यः स्वकरेण दर्शयति यद्दृष्ट्याऽतिसौख्यं गतः ।
एतद्भक्तिमतो महानपि भवांभोधिर्नदीति स्पृशन्
श्रीमद्वेंकटभूधरेंद्ररमणः कुर्याद्धरिर्मंगलम् ॥ 5 ॥

यः स्वामी सरसस्तटे विहरतो श्रीस्वामिनाम्नः सदा
सौवर्णालयमंदिरो विधिमुखैर्बर्हिर्मुखैः सेवितः ।
यः शत्रून् हनयन् निजानवति च श्रीभूवराहात्मकः
श्रीमद्वेंकटभूधरेंद्ररमणः कुर्याद्धरिर्मंगलम् ॥ 6 ॥

यो ब्रह्मादिसुरान् मुनींश्च मनुजान् ब्रह्मोत्सवायागतान्
दृष्ट्वा हृष्टमना बभूव बहुशस्तैरर्चितः संस्तुतः ।
तेभ्यो यः प्रददाद्वरान् बहुविधान् लक्ष्मीनिवासो विभुः
श्रीमद्वेंकटभूधरेंद्ररमणः कुर्याद्धरिर्मंगलम् ॥ 7 ॥

यो देवो भुवि वर्तते कलियुगे वैकुंठलोकस्थितो
भक्तानां परिपालनाय सततं कारुण्यवारां निधिः ।
श्रीशेषाख्यमहींध्रमस्तकमणिर्भक्तैकचिंतामणिः
श्रीमद्वेंकटभूधरेंद्ररमणः कुर्याद्धरिर्मंगलम् ॥ 8 ॥

शेषाद्रिप्रभुमंगलाष्टकमिदं तुष्टेन यस्येशितुः
प्रीत्यर्थं रचितं रमेशचरणद्वंद्वैकनिष्ठावता ।
वैवाह्यादिशुभक्रियासु पठितं यैः साधु तेषामपि
श्रीमद्वेंकटभूधरेंद्ररमणः कुर्याद्धरिर्मंगलम् ॥ 9 ॥

इति श्री वेंकटेश मंगलाष्टकम् ।

sri venkateswara mangalashtakam in nepali

Copy
Give Feedback