Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

अष्टावक्र गीता एकादशोऽध्यायः

Ashtavakra Gita Chapter 11 in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

ashtavakra gita chapter 11 in marathi

अष्टावक्र उवाच ॥

भावाभावविकारश्च स्वभावादिति निश्चयी ।
निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति ॥ 11-1॥

ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी ।
अंतर्गलितसर्वाशः शांतः क्वापि न सज्जते ॥ 11-2॥

आपदः संपदः काले दैवादेवेति निश्चयी ।
तृप्तः स्वस्थेंद्रियो नित्यं न वांछति न शोचति ॥ 11-3॥

सुखदुःखे जन्ममृत्यू दैवादेवेति निश्चयी ।
साध्यादर्शी निरायासः कुर्वन्नपि न लिप्यते ॥ 11-4॥

चिंतया जायते दुःखं नान्यथेहेति निश्चयी ।
तया हीनः सुखी शांतः सर्वत्र गलितस्पृहः ॥ 11-5॥

नाहं देहो न मे देहो बोधोऽहमिति निश्चयी ।
कैवल्यमिव संप्राप्तो न स्मरत्यकृतं कृतम् ॥ 11-6॥

आब्रह्मस्तंबपर्यंतमहमेवेति निश्चयी ।
निर्विकल्पः शुचिः शांतः प्राप्ताप्राप्तविनिर्वृतः ॥ 11-7॥

नानाश्चर्यमिदं विश्वं न किंचिदिति निश्चयी ।
निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति ॥ 11-8॥

ashtavakra gita chapter 11 in marathi

Copy
Give Feedback