Sri Bagalamukhi Stavaraja in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
वन्दे सकलसन्देहदावपावकमीश्वरम् ।
करुणावरुणावासं भक्तकल्पतरुं गुरुम् ॥ १ ॥
उल्लसत् पीतविद्योति विद्योतित तनुत्रयम् ।
निगमागमसर्वस्वमीडेऽहं तन्महन्महः ॥ २ ॥
ओं पूर्वं स्थिरमायां च बगलामुखि सर्वतः ।
दुष्टानां वाचमुच्चार्य मुखं पदं तथोद्धरेत् ॥ ३ ॥
स्तम्भयेति ततो जिह्वां कीलयेति समुद्धरेत् ।
बुद्धिं विनाशयेति पदं स्थिरमायामनुस्मरेत् ॥ ४ ॥
प्रणवं वह्निजाया चेत्येव पैताम्बरो मनुः ।
पातु मां सर्वदा सर्वं निग्रहानुग्रहक्षमः ॥ ५ ॥
कण्ठं नारद ऋषिः पातु पङ्क्तिश्छन्दोऽवतान्मुखम् ।
पीताम्बरा देवता तु हृन्मध्यमवतान्मम ॥ ६ ॥
ह्लीं बीजं स्तनयोर्मेऽव्यात् स्वाहा शक्तिश्च दन्तयोः ।
स कीलकं तथा गुह्ये विनियोगोऽवताद्वपुः ॥ ७ ॥
षड्दीर्घभाजा बीजेन न्यासोऽव्यान्मे करादिकम् ।
द्विपञ्चपञ्च नन्देषु दशभिर्मन्त्रवर्णकैः ॥ ८ ॥
षडङ्गकल्पना पातु षडङ्गानि ह्यनुक्रमात् ।
ऐं विद्यातत्त्वं क्लीं मायातत्त्वं सौश्च शिवात्मकम् ॥ ९ ॥
तत्त्वत्रयं सं बीजं च मूलं हृत्कण्ठ मध्यगः ।
सुधाब्धौ हेमभूरूढ चम्पकोद्यान मध्यतः ॥ १० ॥
गारुडोत्पलनिर्व्यूढ स्वर्णसिंहासनोपरि ।
स्वर्णपङ्कजसंविष्टां त्रिनेत्रां शशिशेखराम् ॥ ११ ॥
पीतालङ्कारवसनां मल्लीचन्दनशोभिताम् ।
सव्याभां पञ्चशाखायां वज्रं जिह्वां च बिभ्रतीम् ॥ १२ ॥
मुद्गरं नागपाशं च दक्षिणाभ्यां मदालसाम् ।
भक्तारिविग्रहोद्योगप्रगल्भां बगलामुखीम् ॥ १३ ॥
ध्यायमानस्य मे पातु शास्त्रवोद्वेषणे भृशम् ।
भूकलादलदिक्पत्रषट्कोणं त्र्यस्त्रबैन्दुकम् ॥ १४ ॥
यन्त्रं पैताम्बरं पातु सा मां पायादविग्रहा ।
आधारशक्तिमारभ्य ज्ञानात्मान्तास्तु शक्तयः ॥ १५ ॥
पीठाद्याः पान्तु पीठेऽत्रं प्रथमं मां च रक्षतु ।
शान्तिशङ्खविशेषात्मशक्तिभूतानि पान्तु माम् ॥ १६ ॥
आवाहनाद्याः पञ्चापि मुद्राश्च सुमनोजलैः ।
त्रिकोणमध्यमारभ्य पूजिता बगलामुखि ॥ १७ ॥
क्रोधिनी स्तम्भिनी चापि धारिण्यश्चापि मध्यगाः ।
ओजः पूषादिपीठानि कोणाग्रेषु स्थितानि वै ॥ १८ ॥
त्रिकोण बाह्यतः सिद्धनाथाद्या गुरवस्तथा ।
सिद्धनाथः सिद्धानन्दनाथः सिद्धपरमेष्ठि हि ॥ १९ ॥
नाथः सिद्धः श्रीकण्ठश्च नाथः सिद्धचतुष्टयम् ।
पातु मामथ षट्कोणे सुभगा भगरूपिणी ॥ २० ॥
भगोदया च भगनिपातिनी भगमालिनी ।
भगवाहा च मां पातु षट्कोणाग्रेषु च क्रमात् ॥ २१ ॥
त्वगात्मा शोणितात्मा च मांसात्मा मेदसात्मकः ।
रूपात्मा परमात्मा च पातु मां स्थिरविग्रहा ॥ २२ ॥
अष्टपत्रेषु मूलेषु ब्राह्मी माहेश्वरी तथा ।
कौमारी वैष्णवी वाराहीन्द्राणी च तथा पुनः ॥ २३ ॥
चामुण्डा च महालक्ष्मीस्तत्र मध्ये पुनर्जया ।
विजया च जयाम्बा च राजिता जृम्भिणी तथा ॥ २४ ॥
स्तम्भिनी मोहिनी वश्याऽकर्षिण्यथ तदग्रके ।
असिताङ्गो रुरुश्चण्डः क्रौधोन्मत्तकपालिनः ।
भीषणाश्चापि संहार एते रक्षन्तु मां सदा ॥ २५ ॥
ततः षोडशपत्रेषु मङ्गला स्तम्भिनी तथा ।
जृम्भिणी मोहिनी वश्या ज्वाला सिंही बलाहका ॥ २६ ॥
भूधरा कल्मषा धात्री कन्यका कालकर्षिणी ।
भान्तिका मन्दगमना भोगस्था भावकेति च ॥ २७ ॥
पातु मामथ भूसद्म दशदिक्षु दिगीश्वराः ।
इन्द्रोऽनलो यमो रक्षो वरुणो मारुतः शशी ॥ २८ ॥
ईशोऽनन्तः स्वयम्भूश्च दशैते पान्तु मे वपुः ।
वज्रशक्तिर्दण्डखड्गौ पाशाङ्कुशगदाः क्रमात् ।
शूलं चक्रं सरोजं च तत्तच्छस्त्राणि पान्तु माम् ॥ २९ ॥
अथ च पूर्वादि चतुर्द्वारेषु परतः क्रमात् ।
पातु विघ्नेशबटुकौ योगिनी क्षेत्रपालकः ॥ ३० ॥
गुरुत्रयं त्रिरेखासु पातु मे वपुरञ्जसा ।
पुनः पीताम्बरा पातु उपचारैः प्रपूजिता ॥ ३१ ॥
साङ्गावरणशक्तिश्च जयश्रीः पातु सर्वदा ।
वलयं बटुकादिभ्यो रक्षां कुर्वन्तु मे सदा ॥ ३२ ॥
शक्तयः साधका वीराः पान्तु मे देवता इमाः ।
इत्यर्चाक्रमतः प्रोक्तं स्तोत्रं पैताम्बरं परम् ॥ ३३ ॥
यः पठेत् सकृदप्येतत् सोऽर्चाफलमवाप्नुयात् ।
सर्वथा कारयेत् क्षिप्रं प्रपद्यन्ते गदातुरान् ॥ ३४ ॥
राजानो राजपत्न्याश्च पौरजानपदास्तथा ।
वशगास्तस्य जायन्ते सततं सेवका इव ॥ ३५ ॥
गुरुकल्पाश्च विबुधा मूकतां यान्ति तेऽग्रतः ।
स्थिरा भवति तद्गेहे चपलापि हरिप्रिया ॥ ३६ ॥
पीताम्बराङ्गवसनो यदि लक्षसङ्ख्यं
पैताम्बरं मनुममुं प्रजपेन्नरो यः ।
हेमी सकृन्नियमवान् विधिना हरिद्रा-
-मालां दधद्भवति तद्वशगा त्रिलोकी ॥ ३७ ॥
भवानि बगलामुखि त्रिदशकल्पवल्लि प्रभो
कृपाजलनिधे तव चरणधूतबाधाखिलः ।
सुरासुरनरादिकसकलभक्तभाग्यप्रदे
त्वदङ्घ्रिसरसीरुहद्वयमहं तु ध्याये सदा ॥ ३८ ॥
त्वमस्य जगतां जनिस्थितिविनाशबीजं निज-
-प्रकाशबहुलद्युतिर्भवति भक्तहृन्मध्यगा ।
त्रयीमनु सुपूजिता हरिहरादि वृन्दारकै-
-रनुक्षणमनुक्षणं मयि शिवे क्षणं वीक्ष्यताम् ॥ ३९ ॥
शिवे तव तनूमहं हरिहराद्यगम्यां परां
निखिलतापप्रत्यूहहृदयाभावयुक्तां स्मरे ।
विदारय विचूर्णय ग्लपय शोषय स्तम्भय
प्रणोदय विरोधय प्रविलय प्रबद्धारिणाम् ॥ ४० ॥
पार्वति कृपालसन्मयि कटाक्षपातं मना-
-गनाकुलतया क्षणं क्षिप विपक्षसङ्क्षोभिणि ।
यदीक्षणपथं गतः सकृदपि प्रभुः कश्चन
स्फुटं मम वशं वदो भवतु तेन पीताम्बरे ॥ ४१ ॥
ओं नमो भगवते महारुद्राय हुं फट् स्वाहा ।
इति अथर्वणरहस्ये श्री बगलामुखी स्तवराजः ॥
Leave a Comment