Sri Bagalamukhi Kavacham 5 Shatru Vinashakaram in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
श्रीदेव्युवाच ।
नमस्ते शम्भवे तुभ्यं नमस्ते शशिशेखर ।
त्वत्प्रसादाच्छ्रुतं सर्वमधुना कवचं वद ॥ १ ॥
श्रीशिव उवाच ।
शृणु देवि प्रवक्ष्यामि कवचं परमाद्भुतम् ।
यस्य स्मरणमात्रेण रिपोः स्तम्भो भवेत् क्षणात् ॥ २ ॥
कवचस्य च देवेशि महामायाप्रभावतः ।
पङ्क्तिश्छन्दः समुद्दिष्टं देवता बगलामुखी ॥ ३ ॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
ओङ्कारो मे शिरः पातु ह्लीङ्कारो वदनेऽवतु ॥ ४ ॥
बगलामुखि दोर्युग्मं कण्ठे सर्व सर्वदाऽवतु ।
दुष्टानां पातु हृदयं वाचं मुखं ततः पदम् ॥ ५ ॥
उदरे सर्वदा पातु स्तम्भयेति सदा मम ।
जिह्वां कीलय मे मातर्बगला सर्वदाऽवतु ॥ ६ ॥
बुद्धिं विनाशय पादौ तु ह्लीं ओं मे दिग्विदिक्षु च ।
स्वाहा मे सर्वदा पातु सर्वत्र सर्वसन्धिषु ॥ ७ ॥
इति ते कथितं देवि कवचं परमाद्भुतम् ।
यस्य स्मरणमात्रेण सर्वस्तम्भो भवेत् क्षणात् ॥ ८ ॥
यद्धृत्वा विविधा दैत्या वासवेन हताः पुरा ।
यस्य प्रसादात् सिद्धोऽहं हरिः सत्त्वगुणान्वितः ॥ ९ ॥
वेधा सृष्टिं वितनुते कामः सर्वजगज्जयी ।
लिखित्वा धारयेद्यस्तु कण्ठे वा दक्षिणे भुजे ॥ १० ॥
षट्कर्मसिद्धिस्तस्याशु मम तुल्यो भवेद्ध्रुवम् ।
अज्ञात्वा कवचं देवि तस्य मन्त्रो न सिध्यति ॥ ११ ॥
इति शत्रुविनाशक श्री बगलामुखी कवचम् ॥
Leave a Comment