Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री रामानुज अष्टकम्

Sri Ramanujashtakam in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri ramanujashtakam in sanskrit

रामानुजाय मुनये नम उक्ति मात्रं
कामातुरोऽपि कुमतिः कलयन्नभीक्षम् ।
यामामनन्ति यमिनां भगवज्जनानां
तामेव विन्दति गतिं तमसः परस्तात् ॥ 1 ॥

सोमावचूडसुरशेखरदुष्करेण
कामातिगोऽपि तपसा क्षपयन्नघानि ।
रामानुजाय मुनये नम इत्यनुक्त्वा
कोवा महीसहचरे कुरुतेऽनुरागम् ॥ 2 ॥

रामानुजाय नम इत्यसकृद्गृणीते
यो मान मात्सर मदस्मर दूषितोऽपि ।
प्रेमातुरः प्रियतमामपहाय पद्मां
भूमा भुजङ्गशयनस्तमनुप्रयाति ॥ 3 ॥

वामालकानयनवागुरिकागृहीतं
क्षेमाय किञ्चिदपि कर्तुमनीहमानम् ।
रामानुजो यतिपतिर्यदि नेक्षते मां
मा मामकोऽयमिति मुञ्चति माधवोऽपि ॥ 4 ॥

रामानुजेति यदितं विदितं जगत्यां
नामीपि न श्रुतिसमीपमुपैति येषाम् ।
मा मा मदीय इति सद्भिरुपेक्षितास्ते
कामानुविद्धमनसो निपतन्त्यधोऽधः ॥ 5 ॥

नामानुकीर्त्य नरकार्तिहरं यदीयं
व्योमाधिरोहति पदं सकलोऽपि लोकः ।
रामानुजो यतिपतिर्यदि नाविरासीत्
को मादृशः प्रभविता भवमुत्तरीतुम् ॥ 6 ॥

सीमामहीध्रपरिधिं पृथिवीमवाप्तुं
वैमानिकेश्वरपुरीमधिवासितुं वा ।
व्योमाधिरोढुमपि न स्पृहयन्ति नित्यं
रामानुजाङ्घ्रियुगलं शरणं प्रपन्नाः ॥ 7 ॥

मा मा धुनोति मनसोऽपि न गोचरं यत्
भूमासखेन पुरुषेण सहानुभूय ।
प्रेमानुविद्धहृदयप्रियभक्तलभ्ये
रामानुजाङ्घ्रिकमले रमतां मनो मे ॥ 8 ॥

श्लोकाष्टकमिदं पुण्यं यो भक्त्या प्रत्यहं पठेत् ।
आकारत्रयसम्पन्नः शोकाब्धिं तरति द्रुतम् ॥

sri ramanujashtakam in sanskrit

Copy
Give Feedback