Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

नारायणीयं दशक 67 – श्रीकृष्णतिरोधानं तथा पुनः प्रत्यक्षीभूय गोपिकाः प्रीणनम्

Narayaniyam Dashaka 67 in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

narayaniyam dashaka 67 in sanskrit

स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोगलीलाः ।
असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः ॥1॥

निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः ।
इति स्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द् तिरोहितोऽभूः ॥2॥

राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे ।
भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥3॥

तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः ।
वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ॥4॥

हा चूत हा चम्पक कर्णिकार हा मल्लिके मालति बालवल्यः ।
किं वीक्षितो नो हृदयैकचोरः इत्यादि तास्त्वत्प्रवणा विलेपुः ॥5॥

निरीक्षितोऽयं सखि पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती ।
त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥6॥

त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि ।
विचित्य भूयोऽपि तथैव मानात्त्वया विमुक्तां ददृशुश्च राधाम् ॥7॥

ततः समं ता विपिने समन्तात्तमोवतारावधि मार्गयन्त्यः ।
पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते ॥8॥

तथा व्यथासङ्कुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो ।
जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥9॥

सन्दिग्धसन्दर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यः सहसा तदानीम् ।
किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात् पालय मारुतेश ॥10॥

narayaniyam dashaka 67 in sanskrit

Copy
Give Feedback