Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

नारायणीयं दशक 67 – श्रीकृष्णतिरोधानं तथा पुनः प्रत्यक्षीभूय गोपिकाः प्रीणनम्

Narayaniyam Dashaka 67 in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

narayaniyam dashaka 67 in konkani

स्फुरत्परानंदरसात्मकेन त्वया समासादितभोगलीलाः ।
असीममानंदभरं प्रपन्ना महांतमापुर्मदमंबुजाक्ष्यः ॥1॥

निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः ।
इति स्म सर्वाः कलिताभिमाना निरीक्ष्य गोविंद् तिरोहितोऽभूः ॥2॥

राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे ।
भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥3॥

तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः ।
वने वने त्वां परिमार्गयंत्यो विषादमापुर्भगवन्नपारम् ॥4॥

हा चूत हा चंपक कर्णिकार हा मल्लिके मालति बालवल्यः ।
किं वीक्षितो नो हृदयैकचोरः इत्यादि तास्त्वत्प्रवणा विलेपुः ॥5॥

निरीक्षितोऽयं सखि पंकजाक्षः पुरो ममेत्याकुलमालपंती ।
त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥6॥

त्वदात्मिकास्ता यमुनातटांते तवानुचक्रुः किल चेष्टितानि ।
विचित्य भूयोऽपि तथैव मानात्त्वया विमुक्तां ददृशुश्च राधाम् ॥7॥

ततः समं ता विपिने समंतात्तमोवतारावधि मार्गयंत्यः ।
पुनर्विमिश्रा यमुनातटांते भृशं विलेपुश्च जगुर्गुणांस्ते ॥8॥

तथा व्यथासंकुलमानसानां व्रजांगनानां करुणैकसिंधो ।
जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मंदहासी ॥9॥

संदिग्धसंदर्शनमात्मकांतं त्वां वीक्ष्य तन्व्यः सहसा तदानीम् ।
किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात् पालय मारुतेश ॥10॥

narayaniyam dashaka 67 in konkani

Copy
Give Feedback