Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

देववाणीं वेदवाणीं मातरं वन्दामहे

Devavanim Vedavanim Mataram Vandamahe in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

devavanim vedavanim mataram vandamahe in sanskrit

देववाणीं वेदवाणीं मातरं वन्दामहे ।
चिरनवीना चिरपुराणीं सादरं वन्दामहे ॥ ध्रु॥

दिव्यसंस्कृतिरक्षणाय तत्परा भुवने भ्रमन्तः ।
लोकजागरणाय सिद्धाः सङ्घटनमन्त्रं जपन्तः ।
कृतिपरा लक्ष्यैकनिष्ठा भारतं सेवामहे ॥ 1॥

भेदभावनिवारणाय बन्धुतामनुभावयेम ।
कर्मणा मनसा च वचसा मातृवन्दनमाचरेम ।
कीर्तिधनपदकामनाभिर्विरहिता मोदामहे ॥ 2॥

संस्कृतेर्विमुखं समाजं जीवनेन शिक्षयेम ।
मानुकूलादर्शं वयं वै पालयित्वा दर्शयेम ।
जीवनं संस्कृत हितार्थं ह्यर्पितं मन्यामहे ॥ 3॥

वयमसाध्यं लक्ष्यमेतत् संस्कृतेन साधयन्तः ।
त्यागधैर्यसमर्पणेन नवलमितिहासं लिखन्तः ।
जन्मभूमिसमर्चनेन सर्वतः स्पन्दामहे ॥ 4॥

भारताः सोदराः स्मो भावनेयं हृदि निधाय ।
वयं संस्कृतसैनिकाः सज्जीता नैजं विहाय ।
परमवैभवसाधनाया वरमहो याचामहे ॥ 5॥

देववाणीं वेदवाणीं मातरं वन्दामहे
चिरनवीनां चिरपुराणीं सादरं वन्दामहे ॥

devavanim vedavanim mataram vandamahe in sanskrit

Copy
Give Feedback