Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

देववाणीं वेदवाणीं मातरं वंदामहे

Devavanim Vedavanim Mataram Vandamahe in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

devavanim vedavanim mataram vandamahe in marathi

देववाणीं वेदवाणीं मातरं वंदामहे ।
चिरनवीना चिरपुराणीं सादरं वंदामहे ॥ ध्रु॥

दिव्यसंस्कृतिरक्षणाय तत्परा भुवने भ्रमंतः ।
लोकजागरणाय सिद्धाः संघटनमंत्रं जपंतः ।
कृतिपरा लक्ष्यैकनिष्ठा भारतं सेवामहे ॥ 1॥

भेदभावनिवारणाय बंधुतामनुभावयेम ।
कर्मणा मनसा च वचसा मातृवंदनमाचरेम ।
कीर्तिधनपदकामनाभिर्विरहिता मोदामहे ॥ 2॥

संस्कृतेर्विमुखं समाजं जीवनेन शिक्षयेम ।
मानुकूलादर्शं वयं वै पालयित्वा दर्शयेम ।
जीवनं संस्कृत हितार्थं ह्यर्पितं मन्यामहे ॥ 3॥

वयमसाध्यं लक्ष्यमेतत् संस्कृतेन साधयंतः ।
त्यागधैर्यसमर्पणेन नवलमितिहासं लिखंतः ।
जन्मभूमिसमर्चनेन सर्वतः स्पंदामहे ॥ 4॥

भारताः सोदराः स्मो भावनेयं हृदि निधाय ।
वयं संस्कृतसैनिकाः सज्जीता नैजं विहाय ।
परमवैभवसाधनाया वरमहो याचामहे ॥ 5॥

देववाणीं वेदवाणीं मातरं वंदामहे
चिरनवीनां चिरपुराणीं सादरं वंदामहे ॥

devavanim vedavanim mataram vandamahe in marathi

Copy
Give Feedback