Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

नारायणीयं दशक 45 – श्रीकृष्णस्य बाललीलाः

Narayaniyam Dashaka 45 in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

narayaniyam dashaka 45 in nepali

अयि सबल मुरारे पाणिजानुप्रचारैः
किमपि भवनभागान् भूषयंतौ भवंतौ ।
चलितचरणकंजौ मंजुमंजीरशिंजा-
श्रवणकुतुकभाजौ चेरतुश्चारुवेगात् ॥1॥

मृदु मृदु विहसंतावुन्मिषद्दंतवंतौ
वदनपतितकेशौ दृश्यपादाब्जदेशौ ।
भुजगलितकरांतव्यालगत्कंकणांकौ
मतिमहरतमुच्चैः पश्यतां विश्वनृणाम् ॥2॥

अनुसरति जनौघे कौतुकव्याकुलाक्षे
किमपि कृतनिनादं व्याहसंतौ द्रवंतौ ।
वलितवदनपद्मं पृष्ठतो दत्तदृष्टी
किमिव न विदधाथे कौतुकं वासुदेव ॥3॥

द्रुतगतिषु पतंतावुत्थितौ लिप्तपंकौ
दिवि मुनिभिरपंकैः सस्मितं वंद्यमानौ ।
द्रुतमथ जननीभ्यां सानुकंपं गृहीतौ
मुहुरपि परिरब्धौ द्राग्युवां चुंबितौ च ॥4॥

स्नुतकुचभरमंके धारयंती भवंतं
तरलमति यशोदा स्तन्यदा धन्यधन्या ।
कपटपशुप मध्ये मुग्धहासांकुरं ते
दशनमुकुलहृद्यं वीक्ष्य वक्त्रं जहर्ष ॥5॥

तदनुचरणचारी दारकैस्साकमारा-
न्निलयततिषु खेलन् बालचापल्यशाली ।
भवनशुकविडालान् वत्सकांश्चानुधावन्
कथमपि कृतहासैर्गोपकैर्वारितोऽभूः ॥6॥

हलधरसहितस्त्वं यत्र यत्रोपयातो
विवशपतितनेत्रास्तत्र तत्रैव गोप्यः ।
विगलितगृहकृत्या विस्मृतापत्यभृत्या
मुरहर मुहुरत्यंताकुला नित्यमासन् ॥7॥

प्रतिनवनवनीतं गोपिकादत्तमिच्छन्
कलपदमुपगायन् कोमलं क्वापि नृत्यन् ।
सदययुवतिलोकैरर्पितं सर्पिरश्नन्
क्वचन नवविपक्वं दुग्धमप्यापिबस्त्वम् ॥8॥

मम खलु बलिगेहे याचनं जातमास्ता-
मिह पुनरबलानामग्रतो नैव कुर्वे ।
इति विहितमतिः किं देव संत्यज्य याच्ञां
दधिघृतमहरस्त्वं चारुणा चोरणेन ॥9॥

तव दधिघृतमोषे घोषयोषाजनाना-
मभजत हृदि रोषो नावकाशं न शोकः ।
हृदयमपि मुषित्वा हर्षसिंधौ न्यधास्त्वं
स मम शमय रोगान् वातगेहाधिनाथ ॥10॥

शाखाग्रे विधुं विलोक्य फलमित्यंबां च तातं मुहुः
संप्रार्थ्याथ तदा तदीयवचसा प्रोत्क्षिप्तबाहौ त्वयि।
चित्रं देव शशी स ते कर्मगात् किं ब्रूमहे संपतः
ज्योतिर्मंडलपूरिताखिलवपुः प्रागा विराड्रूपताम् ॥ 11॥

किं किं बतेदमिति संभ्रम भाजमेनं
ब्रह्मार्णवे क्षणममुं परिमज्ज्य तातम् ।
मायां पुनस्तनय-मोहमयीं वितन्वन्
आनंदचिन्मय जगन्मय पाहि रोगात् ॥12॥

narayaniyam dashaka 45 in nepali

Copy
Give Feedback