Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

ललिता पंच रत्नम्

Lalitha Pancha Ratnam in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

lalitha pancha ratnam in nepali

प्रातः स्मरामि ललिता वदनारविंदं
बिंबाधरं पृथुल मौक्तिक शोभिनासम् ।
आकर्णदीर्घनयनं मणिकुंडलाढ्यं
मंदस्मितं मृगमदोज्ज्वल फालदेशम् ॥ 1 ॥

प्रातर्भजामि ललिता भुजकल्पवल्लीं
रक्तांगुलीय लसदंगुलि पल्लवाढ्याम् ।
माणिक्य हेमवलयांगद शोभमानां
पुंड्रेक्षुचाप कुसुमेषु सृणीर्दधानाम् ॥ 2 ॥

प्रातर्नमामि ललिता चरणारविंदं
भक्तेष्ट दाननिरतं भवसिंधुपोतम् ।
पद्मासनादि सुरनायक पूजनीयं
पद्मांकुशध्वज सुदर्शन लांछनाढ्यम् ॥ 3 ॥

प्रातः स्तुवे परशिवां ललितां भवानीं
त्रय्यंतवेद्य विभवां करुणानवद्याम् ।
विश्वस्य सृष्टविलय स्थितिहेतुभूतां
विद्येश्वरीं निगमवाङ्ममनसातिदूराम् ॥ 4 ॥

प्रातर्वदामि ललिते तव पुण्यनाम
कामेश्वरीति कमलेति महेश्वरीति ।
श्रीशांभवीति जगतां जननी परेति
वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ 5 ॥

यः श्लोकपंचकमिदं ललितांबिकायाः
सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रियं विमलसौख्यमनंतकीर्तिम् ॥

lalitha pancha ratnam in nepali

Copy
Give Feedback