Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

ललिता पञ्च रत्नम्

Lalitha Pancha Ratnam in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

lalitha pancha ratnam in devanagari

प्रातः स्मरामि ललिता वदनारविन्दं
बिम्बाधरं पृथुल मौक्तिक शोभिनासम् ।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं
मन्दस्मितं मृगमदोज्ज्वल फालदेशम् ॥ 1 ॥

प्रातर्भजामि ललिता भुजकल्पवल्लीं
रक्ताङ्गुलीय लसदङ्गुलि पल्लवाढ्याम् ।
माणिक्य हेमवलयाङ्गद शोभमानां
पुण्ड्रेक्षुचाप कुसुमेषु सृणीर्दधानाम् ॥ 2 ॥

प्रातर्नमामि ललिता चरणारविन्दं
भक्तेष्ट दाननिरतं भवसिन्धुपोतम् ।
पद्मासनादि सुरनायक पूजनीयं
पद्माङ्कुशध्वज सुदर्शन लाञ्छनाढ्यम् ॥ 3 ॥

प्रातः स्तुवे परशिवां ललितां भवानीं
त्रय्यन्तवेद्य विभवां करुणानवद्याम् ।
विश्वस्य सृष्टविलय स्थितिहेतुभूतां
विद्येश्वरीं निगमवाङ्ममनसातिदूराम् ॥ 4 ॥

प्रातर्वदामि ललिते तव पुण्यनाम
कामेश्वरीति कमलेति महेश्वरीति ।
श्रीशाम्भवीति जगतां जननी परेति
वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ 5 ॥

यः श्लोकपञ्चकमिदं ललिताम्बिकायाः
सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥

lalitha pancha ratnam in devanagari

Copy
Give Feedback