Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

गायत्र्यष्टकं (गयत्री अष्टकं)

Gayatryashtakam Gayatri Ashtakam in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

gayatryashtakam gayatri ashtakam in nepali

विश्वामित्रतपःफलां प्रियतरां विप्रालिसंसेवितां
नित्यानित्यविवेकदां स्मितमुखीं खंडेंदुभूषोज्ज्वलाम् ।
तांबूलारुणभासमानवदनां मार्तांडमध्यस्थितां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 1 ॥

जातीपंकजकेतकीकुवलयैः संपूजितांघ्रिद्वयां
तत्त्वार्थात्मिकवर्णपंक्तिसहितां तत्त्वार्थबुद्धिप्रदाम् ।
प्राणायामपरायणैर्बुधजनैः संसेव्यमानां शिवां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 2 ॥

मंजीरध्वनिभिः समस्तजगतां मंजुत्वसंवर्धनीं
विप्रप्रेंखितवारिवारितमहारक्षोगणां मृण्मयीम् ।
जप्तुः पापहरां जपासुमनिभां हंसेन संशोभितां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 3 ॥

कांचीचेलविभूषितां शिवमयीं मालार्धमालादिका-
-न्बिभ्राणां परमेश्वरीं शरणदां मोहांधबुद्धिच्छिदाम् ।
भूरादित्रिपुरां त्रिलोकजननीमध्यात्मशाखानुतां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 4 ॥

ध्यातुर्गर्भकृशानुतापहरणां सामात्मिकां सामगां
सायंकालसुसेवितां स्वरमयीं दूर्वादलश्यामलाम् ।
मातुर्दास्यविलोचनैकमतिमत्खेटींद्रसंराजितां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 5 ॥

संध्यारागविचित्रवस्त्रविलसद्विप्रोत्तमैः सेवितां
ताराहारसुमालिकां सुविलसद्रत्नेंदुकुंभांतराम् ।
राकाचंद्रमुखीं रमापतिनुतां शंखादिभास्वत्करां
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 6 ॥

वेणीभूषितमालकध्वनिकरैर्भृंगैः सदा शोभितां
तत्त्वज्ञानरसायनज्ञरसनासौधभ्रमद्भ्रामरीम् ।
नासालंकृतमौक्तिकेंदुकिरणैः सायंतमश्छेदिनीं
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 7 ॥

पादाब्जांतररेणुकुंकुमलसत्फालद्युरामावृतां
रंभानाट्यविलोकनैकरसिकां वेदांतबुद्धिप्रदाम् ।
वीणावेणुमृदंगकाहलरवान् देवैः कृतांछृण्वतीं
गायत्रीं हरिवल्लभां त्रिणयनां ध्यायामि पंचाननाम् ॥ 8 ॥

हत्यापानसुवर्णतस्करमहागुर्वंगनासंगमा-
-ंदोषांछैलसमान् पुरंदरसमाः संच्छिद्य सूर्योपमाः ।
गायत्रीं श्रुतिमातुरेकमनसा संध्यासु ये भूसुरा
जप्त्वा यांति परां गतिं मनुमिमं देव्याः परं वैदिकाः ॥ 9 ॥

इति श्रीमच्छंकराचार्य विरचितं श्री गायत्र्यष्टकम् ।

gayatryashtakam gayatri ashtakam in nepali

Copy
Give Feedback