Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

नारायणीयं दशक 22 – अजामिलोपाख्यानम्

Narayaniyam Dashaka 22 in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

narayaniyam dashaka 22 in marathi

अजामिलो नाम महीसुरः पुरा
चरन् विभो धर्मपथान् गृहाश्रमी ।
गुरोर्गिरा काननमेत्य दृष्टवान्
सुधृष्टशीलां कुलटां मदाकुलाम् ॥1॥

स्वतः प्रशांतोऽपि तदाहृताशयः
स्वधर्ममुत्सृज्य तया समारमन् ।
अधर्मकारी दशमी भवन् पुन-
र्दधौ भवन्नामयुते सुते रतिम् ॥2॥

स मृत्युकाले यमराजकिंकरान्
भयंकरांस्त्रीनभिलक्षयन् भिया ।
पुरा मनाक् त्वत्स्मृतिवासनाबलात्
जुहाव नारायणनामकं सुतम् ॥3॥

दुराशयस्यापि तदात्वनिर्गत-
त्वदीयनामाक्षरमात्रवैभवात् ।
पुरोऽभिपेतुर्भवदीयपार्षदाः
चतुर्भुजाः पीतपटा मनोरमाः ॥4॥

अमुं च संपाश्य विकर्षतो भटान्
विमुंचतेत्यारुरुधुर्बलादमी ।
निवारितास्ते च भवज्जनैस्तदा
तदीयपापं निखिलं न्यवेदयन् ॥5॥

भवंतु पापानि कथं तु निष्कृते
कृतेऽपि भो दंडनमस्ति पंडिताः ।
न निष्कृतिः किं विदिता भवादृशा-
मिति प्रभो त्वत्पुरुषा बभाषिरे ॥6॥

श्रुतिस्मृतिभ्यां विहिता व्रतादयः
पुनंति पापं न लुनंति वासनाम् ।
अनंतसेवा तु निकृंतति द्वयी-
मिति प्रभो त्वत्पुरुषा बभाषिरे ॥7॥

अनेन भो जन्मसहस्रकोटिभिः
कृतेषु पापेष्वपि निष्कृतिः कृता ।
यदग्रहीन्नाम भयाकुलो हरे-
रिति प्रभो त्वत्पुरुषा बभाषिरे ॥8॥

नृणामबुद्ध्यापि मुकुंदकीर्तनं
दहत्यघौघान् महिमास्य तादृशः ।
यथाग्निरेधांसि यथौषधं गदा –
निति प्रभो त्वत्पुरुषा बभाषिरे ॥9॥

इतीरितैर्याम्यभटैरपासृते
भवद्भटानां च गणे तिरोहिते ।
भवत्स्मृतिं कंचन कालमाचरन्
भवत्पदं प्रापि भवद्भटैरसौ ॥10॥

स्वकिंकरावेदनशंकितो यम-
स्त्वदंघ्रिभक्तेषु न गम्यतामिति ।
स्वकीयभृत्यानशिशिक्षदुच्चकैः
स देव वातालयनाथ पाहि माम् ॥11॥

narayaniyam dashaka 22 in marathi

Copy
Give Feedback