Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

चौराष्टकम् (श्री चौराग्रगण्य पुरुषाष्टकम्)

Chaurashtakam Sri Chauragraganya Purushashtakam in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

chaurashtakam sri chauragraganya purushashtakam in marathi

व्रजे प्रसिद्धं नवनीतचौरं
गोपांगनानां च दुकूलचौरम् ।
अनेकजन्मार्जितपापचौरं
चौराग्रगण्यं पुरुषं नमामि ॥ 1॥

श्रीराधिकाया हृदयस्य चौरं
नवांबुदश्यामलकांतिचौरम् ।
पदाश्रितानां च समस्तचौरं
चौराग्रगण्यं पुरुषं नमामि ॥ 2॥

अकिंचनीकृत्य पदाश्रितं यः
करोति भिक्षुं पथि गेहहीनम् ।
केनाप्यहो भीषणचौर ईदृग्-
दृष्टःश्रुतो वा न जगत्त्रयेऽपि ॥ 3॥

यदीय नामापि हरत्यशेषं
गिरिप्रसारान् अपि पापराशीन् ।
आश्चर्यरूपो ननु चौर ईदृग्
दृष्टः श्रुतो वा न मया कदापि ॥ 4॥

धनं च मानं च तथेंद्रियाणि
प्राणांश्च हृत्वा मम सर्वमेव ।
पलायसे कुत्र धृतोऽद्य चौर
त्वं भक्तिदाम्नासि मया निरुद्धः ॥ 5॥

छिनत्सि घोरं यमपाशबंधं
भिनत्सि भीमं भवपाशबंधम् ।
छिनत्सि सर्वस्य समस्तबंधं
नैवात्मनो भक्तकृतं तु बंधम् ॥ 6॥

मन्मानसे तामसराशिघोरे
कारागृहे दुःखमये निबद्धः ।
लभस्व हे चौर! हरे! चिराय
स्वचौर्यदोषोचितमेव दंडम् ॥ 7॥

कारागृहे वस सदा हृदये मदीये
मद्भक्तिपाशदृढबंधननिश्चलः सन् ।
त्वां कृष्ण हे! प्रलयकोटिशतांतरेऽपि
सर्वस्वचौर! हृदयान् न हि मोचयामि ॥ 8॥

इति श्रीबिल्वमंगलठाकूरविरचितं चौराष्टकं संपूर्णम् ।

चौरग्रगण्य पुरुषाष्टकम् ।

chaurashtakam sri chauragraganya purushashtakam in marathi

Copy
Give Feedback