Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

भवानी भुजंग प्रयात स्तोत्रं

Bhavani Bhujanga Prayata Stotram in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

bhavani bhujanga prayata stotram in marathi

षडाधारपंकेरुहांतर्विराज-
-त्सुषुम्नांतरालेऽतितेजोल्लसंतीम् ।
सुधामंडलं द्रावयंतीं पिबंतीं
सुधामूर्तिमीडे चिदानंदरूपाम् ॥ 1 ॥

ज्वलत्कोटिबालार्कभासारुणांगीं
सुलावण्यशृंगारशोभाभिरामाम् ।
महापद्मकिंजल्कमध्ये विराज-
-त्त्रिकोणे निषण्णां भजे श्रीभवानीम् ॥ 2 ॥

क्वणत्किंकिणीनूपुरोद्भासिरत्न-
-प्रभालीढलाक्षार्द्रपादाब्जयुग्मम् ।
अजेशाच्युताद्यैः सुरैः सेव्यमानं
महादेवि मन्मूर्ध्नि ते भावयामि ॥ 3 ॥

सुशोणांबराबद्धनीवीविराज-
-न्महारत्नकांचीकलापं नितंबम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्रो
वलीरंब ते रोमराजिं भजेऽहम् ॥ 4 ॥

लसद्वृत्तमुत्तुंगमाणिक्यकुंभो-
-पमश्रि स्तनद्वंद्वमंबांबुजाक्षि ।
भजे दुग्धपूर्णाभिरामं तवेदं
महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ 5 ॥

शिरीषप्रसूनोल्लसद्बाहुदंडै-
-र्ज्वलद्बाणकोदंडपाशांकुशैश्च ।
चलत्कंकणोदारकेयूरभूषो-
-ज्ज्वलद्भिर्लसंतीं भजे श्रीभवानीम् ॥ 6 ॥

शरत्पूर्णचंद्रप्रभापूर्णबिंबा-
-धरस्मेरवक्त्रारविंदां सुशांताम् ।
सुरत्नावलीहारताटंकशोभां
महासुप्रसन्नां भजे श्रीभवानीम् ॥ 7 ॥

सुनासापुटं सुंदरभ्रूललाटं
तवौष्ठश्रियं दानदक्षं कटाक्षम् ।
ललाटे लसद्गंधकस्तूरिभूषं
स्फुरच्छ्रीमुखांभोजमीडेऽहमंब ॥ 8 ॥

चलत्कुंतलांतर्भ्रमद्भृंगबृंदं
घनस्निग्धधम्मिल्लभूषोज्ज्वलं ते ।
स्फुरन्मौलिमाणिक्यबद्धेंदुरेखा-
-विलासोल्लसद्दिव्यमूर्धानमीडे ॥ 9 ॥

इति श्रीभवानि स्वरूपं तवेदं
प्रपंचात्परं चातिसूक्ष्मं प्रसन्नम् ।
स्फुरत्वंब डिंभस्य मे हृत्सरोजे
सदा वाङ्मयं सर्वतेजोमयं च ॥ 10 ॥

गणेशाभिमुख्याखिलैः शक्तिबृंदै-
-र्वृतां वै स्फुरच्चक्रराजोल्लसंतीम् ।
परां राजराजेश्वरि त्रैपुरि त्वां
शिवांकोपरिस्थां शिवां भावयामि ॥ 11 ॥

त्वमर्कस्त्वमिंदुस्त्वमग्निस्त्वमाप-
-स्त्वमाकाशभूवायवस्त्वं महत्त्वम् ।
त्वदन्यो न कश्चित् प्रपंचोऽस्ति सर्वं
सदानंदसंवित्स्वरूपं भजेऽहम् ॥ 12 ॥

श्रुतीनामगम्ये सुवेदागमज्ञा
महिम्नो न जानंति पारं तवांब ।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि
क्षमस्वेदमत्र प्रमुग्धः किलाहम् ॥ 13 ॥

गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
त्वमेवासि माता पिता च त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बंधु-
-र्गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ 14 ॥

शरण्ये वरेण्ये सुकारुण्यमूर्ते
हिरण्योदराद्यैरगण्ये सुपुण्ये ।
भवारण्यभीतेश्च मां पाहि भद्रे
नमस्ते नमस्ते नमस्ते भवानि ॥ 15 ॥

इतीमां महच्छ्रीभवानीभुजंगं
स्तुतिं यः पठेद्भक्तियुक्तश्च तस्मै ।
स्वकीयं पदं शाश्वतं वेदसारं
श्रियं चाष्टसिद्धिं भवानी ददाति ॥ 16 ॥

भवानी भवानी भवानी त्रिवारं
उदारं मुदा सर्वदा ये जपंति ।
न शोकं न मोहं न पापं न भीतिः
कदाचित्कथंचित्कुतश्चिज्जनानाम् ॥ 17 ॥

॥ इति श्रीमच्छंकराचार्यविरचिता भवानी भुजंगं संपूर्णम् ॥

bhavani bhujanga prayata stotram in marathi

Copy
Give Feedback