Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्रीमद्भगवद्गीता पारायण – गीता सारम्

Bhagavadgita Parayana Gita Saram in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

bhagavadgita parayana gita saram in marathi

पल्लवि (कीरवाणि)
गीतासारं शृणुत सदा
मनसि विकासं वहतमुदा
कामं क्रोधं त्यजत हृदा
भूयात् संवित् परसुखदा

चरणं
विषाद योगात् पार्थेन
भणितं किंचिन्मोह धिया
तं संदिग्धं मोचयितुं
गीताशास्त्रं गीतमिदं ॥ 1 ॥

सांख्यं ज्ञानं जानीहि
शरणागति पथ मवाप्नुहि
आत्म नित्य स्सर्वगतो
नैनं किंचित् क्लेदयति ॥ 2 ॥

(मोहन)
फलेषु सक्तिं मैव कुरु
कार्यं कर्म तु समाचर
कर्माबद्धः परमेति
कर्मणि संगः पातयति ॥ 3 ॥

कर्माकर्म विकर्मत्वं
चिंतय चात्मनि कर्मगतिं
नास्ति ज्ञानसमं लोके
त्यज चाहंकृति मिह देहे ॥ 4 ॥

(कापि)
वह समबुद्धिं सर्वत्र
भव समदर्शी त्वं हि सखे
योननुरक्तो न द्वेष्टि
योगी योगं जानाति ॥ 5 ॥

मित्रं तव ते शत्रुरपि
त्वमेव नान्यो जंतुरयि!
युक्तस्त्वं भव चेष्टासु
आहारादिषु विविधासु ॥ 6 ॥

(कल्याणि)
अनात्मरूपा मष्टविधां
प्रकृति मविद्यां जानीहि
जीव स्सैव हि परमात्मा
यस्मिन् प्रोतं सर्वमिदं ॥ 7 ॥

अक्षर पर वर पुरुषं तं
ध्यायन् प्रेतो याति परं
तत स्तमेव ध्यायन् त्वं
कालं यापय नश्यंतं ॥ 8 ॥

(हिंदोल)
सर्वं ब्रह्मार्पण बुद्ध्या
कर्म क्रियतां समबुद्ध्या
भक्त्या दत्तं पत्रमपि
फलमपि तेन स्वीक्रियते ॥ 9 ॥

यत्र विभूति श्श्री युक्ता
यत्र विभूति स्सत्त्वयुता
तत्र तमीशं पश्यंतं
नेर्ष्या द्वेषौ सज्जेते ॥ 10 ॥

(अमृतवर्षिणि)
कालस्तस्य महान् रूपो
लोकान् सर्वान् संग्रसति
भक्त्या भगवद्रूपं तं
प्रभवति लोक स्संद्रष्टुं ॥ 11 ॥

भक्ति स्तस्मिन् रतिरूपा
सैव हि भक्तोद्धरणचणा
भावं तस्या माधाय
बुद्धिं तस्मि न्निवेशय ॥ 12 ॥

(चारुकेशि)
क्षेत्रं तद्‍ज्ञं जानीहि
क्षेत्रे ममतां मा कुरु च
आत्मानं यो जानाति
आत्मनि सोयं ननु रमते ॥ 13 ॥

सात्त्विक राजस तामसिका
बंधन हेतव अथवर्ज्यः
त्रयं गुणानां योतीत-
स्सैव ब्राह्मं सुखमेति ॥ 14 ॥

(हंसानंदि)
छित्वा सांसारिकवृक्षं
पदं गवेषय मुनिलक्ष्यं
तत्किल सर्वं तेजो यत्
वेदै स्सर्वै स्संवेद्यं ॥ 15 ॥

सृष्टि र्दैवी चासुरिका
द्विविधा प्रोक्ता लोकेस्मिन्
दैवे सक्ता यांति परं
आसुरसक्ता असुरगतिं ॥ 16 ॥

(श्री)
निष्ठा यज्ञे दाने च
तपसि प्रोक्ता सदिति परा
सत्किल सफलं सश्रद्धं
तत्किल निष्फल मश्रद्धं ॥ 17 ॥

धर्मान् सर्वान् त्यक्त्वा त्वं
शरणं व्रज पर-मात्मानं
मोक्षं प्राप्स्यसि सत्यं त्वं
संतत सच्चिदानंद घनं ॥ 18 ॥

bhagavadgita parayana gita saram in marathi

Copy
Give Feedback