Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

महेंद्र कृत महालक्ष्मी स्तोत्रं

Mahendra Kruta Mahalakshmi Stotram in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

mahendra kruta mahalakshmi stotram in konkani

महेंद्र उवाच
नमः कमलवासिन्यै नारायण्यै नमो नमः ।
कृष्णप्रियायै सारायै पद्मायै च नमो नमः ॥ 1 ॥

पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः ।
पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ 2 ॥

सर्वसंपत्स्वरूपायै सर्वदात्र्यै नमो नमः ।
सुखदायै मोक्षदायै सिद्धिदायै नमो नमः ॥ 3 ॥

हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ।
कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ॥ 4 ॥

कृष्णशोभास्वरूपायै रत्नाढ्यायै नमो नमः ।
संपत्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ॥ 5 ॥

सस्याधिष्ठातृदेव्यै च सस्यलक्ष्म्यै नमो नमः ।
नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः ॥ 6 ॥

वैकुंठे च महालक्ष्मीर्लक्ष्मीः क्षीरोदसागरे ।
स्वर्गलक्ष्मीरिंद्रगेहे राजलक्ष्मीर्नृपालये ॥ 7 ॥

गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता ।
सुरभिः सा गवां माता दक्षिणा यज्ञकामिनी ॥ 8 ॥

अदितिर्देवमाता त्वं कमला कमलालये ।
स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥ 9 ॥

त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुंधरा ।
शुद्धसत्त्वस्वरूपा त्वं नारायणपरायाणा ॥ 10 ॥

क्रोधहिंसावर्जिता च वरदा च शुभानना ।
परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥ 11 ॥

यया विना जगत्सर्वं भस्मीभूतमसारकम् ।
जीवन्मृतं च विश्वं च शवतुल्यं यया विना ॥ 12 ॥

सर्वेषां च परा त्वं हि सर्वबांधवरूपिणी ।
यया विना न संभाष्यो बांधवैर्बांधवः सदा ॥ 13 ॥

त्वया हीनो बंधुहीनस्त्वया युक्तः सबांधवः ।
धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ 14 ॥

स्तनंधयानां त्वं माता शिशूनां शैशवे यथा ।
तथा त्वं सर्वदा माता सर्वेषां सर्वविश्वतः ॥ 15 ॥

त्यक्तस्तनो मातृहीनः स चेज्जीवति दैवतः ।
त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥ 16 ॥

सुप्रसन्नस्वरूपा त्वं मे प्रसन्ना भवांबिके ।
वैरिग्रस्तं च विषयं देहि मह्यं सनातनि ॥ 17 ॥

वयं यावत्त्वया हीना बंधुहीनाश्च भिक्षुकाः ।
सर्वसंपद्विहीनाश्च तावदेव हरिप्रिये ॥ 18 ॥

राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि ।
कीर्तिं देहि धनं देहि पुत्रान्मह्यं च देहि वै ॥ 19 ॥

कामं देहि मतिं देहि भोगान् देहि हरिप्रिये ।
ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ॥ 20 ॥

सर्वाधिकारमेवं वै प्रभावां च प्रतापकम् ।
जयं पराक्रमं युद्धे परमैश्वर्यमैव च ॥ 21 ॥

इत्युक्त्वा तु महेंद्रश्च सर्वैः सुरगणैः सह ।
ननाम साश्रुनेत्रोऽयं मूर्ध्ना चैव पुनः पुनः ॥ 22 ॥

ब्रह्मा च शंकरश्चैव शेषो धर्मश्च केशवः ।
सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः ॥ 23 ॥

देवेभ्यश्च वरं दत्त्वा पुष्पमालां मनोहराम् ।
केशवाय ददौ लक्ष्मीः संतुष्टा सुरसंसदि ॥ 24 ॥

ययुर्दैवाश्च संतुष्टाः स्वं स्वं स्थानं च नारद ।
देवी ययौ हरेः क्रोडं हृष्टा क्षीरोदशायिनः ॥ 25 ॥

ययतुस्तौ स्वस्वगृहं ब्रह्मेशानौ च नारद ।
दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ॥ 26 ॥

इदं स्तोत्रं महापुण्यं त्रिसंध्यं यः पठेन्नरः ।
कुबेरतुल्यः स भवेद्राजराजेश्वरो महान् ॥ 27 ॥

सिद्धस्तोत्रं यदि पठेत् सोऽपि कल्पतरुर्नरः ।
पंचलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ 28 ॥

सिद्धस्तोत्रं यदि पठेन्मासमेकं च संयतः ।
महासुखी च राजेंद्रो भविष्यति न संशयः ॥ 29 ॥

इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखंडे नारदनारायणसंवादे एकोनचत्वारिंशत्तमोऽध्याये महेंद्र कृत श्री महालक्ष्मी स्तोत्रम् ।

mahendra kruta mahalakshmi stotram in konkani

Copy
Give Feedback