Aditya Kavacham in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
aditya kavacham in konkani
अस्य श्री आदित्यकवचस्तोत्रमहामंत्रस्य अगस्त्यो भगवानृषिः अनुष्टुप्छंदः आदित्यो देवता श्रीं बीजं णीं शक्तिः सूं कीलकं मम आदित्यप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ध्यानं
जपाकुसुमसंकाशं द्विभुजं पद्महस्तकम्
सिंदूरांबरमाल्यं च रक्तगंधानुलेपनम् ।
माणिक्यरत्नखचित-सर्वाभरणभूषितम्
सप्ताश्वरथवाहं तु मेरुं चैव प्रदक्षिणम् ॥
देवासुरवरैर्वंद्यं घृणिभिः परिसेवितम् ।
ध्यायेत्पठेत्सुवर्णाभं सूर्यस्य कवचं मुदा ॥
कवचं
घृणिः पातु शिरोदेशे सूर्यः पातु ललाटकम् ।
आदित्यो लोचने पातु श्रुती पातु दिवाकरः ॥
घ्राणं पातु सदा भानुः मुखं पातु सदारविः ।
जिह्वां पातु जगन्नेत्रः कंठं पातु विभावसुः ॥
स्कंधौ ग्रहपतिः पातु भुजौ पातु प्रभाकरः ।
करावब्जकरः पातु हृदयं पातु नभोमणिः ॥
द्वादशात्मा कटिं पातु सविता पातु सक्थिनी ।
ऊरू पातु सुरश्रेष्टो जानुनी पातु भास्करः ॥
जंघे मे पातु मार्तांडो गुल्फौ पातु त्विषांपतिः ।
पादौ दिनमणिः पातु पातु मित्रोऽखिलं वपुः ॥
आदित्यकवचं पुण्यमभेद्यं वज्रसन्निभम् ।
सर्वरोगभयादिभ्यो मुच्यते नात्र संशयः ॥
संवत्सरमुपासित्वा साम्राज्यपदवीं लभेत् ।
अशेषरोगशांत्यर्थं ध्यायेदादित्यमंडलम् ।
आदित्य मंडल स्तुतिः –
अनेकरत्नसंयुक्तं स्वर्णमाणिक्यभूषणम् ।
कल्पवृक्षसमाकीर्णं कदंबकुसुमप्रियम् ॥
सिंदूरवर्णाय सुमंडलाय
सुवर्णरत्नाभरणाय तुभ्यम् ।
पद्मादिनेत्रे च सुपंकजाय
ब्रह्मेंद्र-नारायण-शंकराय ॥
संरक्तचूर्णं ससुवर्णतोयं
सकुंकुमाभं सकुशं सपुष्पम् ।
प्रदत्तमादाय च हेमपात्रे
प्रशस्तनादं भगवन् प्रसीद ॥
इति आदित्यकवचम् ।
aditya kavacham in konkani
Leave a Comment