Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

सुब्रह्मण्य भुजंग प्रयात स्तोत्रम्

Subrahmanya Bhujanga Prayata Stotram in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

subrahmanya bhujanga prayata stotram in hindi

भजेऽहं कुमारं भवानीकुमारं
गलोल्लासिहारं नमत्सद्विहारम् ।
रिपुस्तोमपारं नृसिंहावतारं
सदानिर्विकारं गुहं निर्विचारम् ॥ 1 ॥

नमामीशपुत्रं जपाशोणगात्रं
सुरारातिशत्रुं रवींद्वग्निनेत्रम् ।
महाबर्हिपत्रं शिवास्याब्जमित्रं
प्रभास्वत्कलत्रं पुराणं पवित्रम् ॥ 2 ॥

अनेकार्ककोटि-प्रभावज्ज्वलं तं
मनोहारि माणिक्य भूषोज्ज्वलं तम् ।
श्रितानामभीष्टं निशांतं नितांतं
भजे षण्मुखं तं शरच्चंद्रकांतम् ॥ 3 ॥

कृपावारि कल्लोलभास्वत्कटाक्षं
विराजन्मनोहारि शोणांबुजाक्षम् ।
प्रयोगप्रदानप्रवाहैकदक्षं
भजे कांतिकांतं परस्तोमरक्षम् ॥ 4 ॥

सुकस्तूरिसिंदूरभास्वल्ललाटं
दयापूर्णचित्तं महादेवपुत्रम् ।
रवींदूल्लसद्रत्नराजत्किरीटं
भजे क्रीडिताकाश गंगाद्रिकूटम् ॥ 5 ॥

सुकुंदप्रसूनावलीशोभितांगं
शरत्पूर्णचंद्रप्रभाकांतिकांतम् ।
शिरीषप्रसूनाभिरामं भवंतं
भजे देवसेनापतिं वल्लभं तम् ॥ 6 ॥

सुलावण्यसत्सूर्यकोटिप्रतीकं
प्रभुं तारकारिं द्विषड्बाहुमीशम् ।
निजांकप्रभादिव्यमानापदीशं
भजे पार्वतीप्राणपुत्रं सुकेशम् ॥ 7 ॥

अजं सर्वलोकप्रियं लोकनाथं
गुहं शूरपद्मादिदंभोलिधारम् ।
सुचारुं सुनासापुटं सच्चरित्रं
भजे कार्तिकेयं सदा बाहुलेयम् ॥ 8 ॥

शरारण्यसंभूतमिंद्रादिवंद्यं
द्विषड्बाहुसंख्यायुधश्रेणिरम्यम् ।
मरुत्सारथिं कुक्कुटेशं सुकेतुं
भजे योगिहृत्पद्ममध्याधिवासम् ॥ 9 ॥

विरिंचींद्रवल्लीश देवेशमुख्यं
प्रशस्तामरस्तोमसंस्तूयमानम् ।
दिश त्वं दयालो श्रियं निश्चलां मे
विना त्वां गतिः का प्रभो मे प्रसीद ॥ 10 ॥

पदांभोजसेवा समायातबृंदा-
रकश्रेणिकोटीरभास्वल्ललाटम् ।
कलत्रोल्लसत्पार्श्वयुग्मं वरेण्यं
भजे देवमाद्यंतहीनप्रभावम् ॥ 11 ॥

भवांभोधिमध्ये तरंगे पतंतं
प्रभो मां सदा पूर्णदृष्ट्या समीक्ष्य ।
भवद्भक्तिनावोद्धर त्वं दयालो
सुगत्यंतरं नास्ति देव प्रसीद ॥ 12 ॥

गले रत्नभूषं तनौ मंजुवेषं
करे ज्ञानशक्तिं दरस्मेरमास्ये ।
कटिन्यस्तपाणिं शिखिस्थं कुमारं
भजेऽहं गुहादन्यदेवं न मन्ये ॥ 13 ॥

दयाहीनचित्तं परद्रोहपात्रं
सदा पापशीलं गुरोर्भक्तिहीनम् ।
अनन्यावलंबं भवन्नेत्रपात्रं
कृपाशील मां भो पवित्रं कुरु त्वम् ॥ 14 ॥

महासेन गांगेय वल्लीसहाय
प्रभो तारकारे षडास्यामरेश ।
सदा पायसान्नप्रदातर्गुहेति
स्मरिष्यामि भक्त्या सदाहं विभो त्वाम् ॥ 15 ॥

प्रतापस्य बाहो नमद्वीरबाहो
प्रभो कार्तिकेयेष्टकामप्रदेति ।
यदा ये पठंते भवंतं तदेवं
प्रसन्नस्तु तेषां बहुश्रीं ददासि ॥ 16 ॥

अपारातिदारिद्र्यवाराशिमध्ये
भ्रमंतं जनग्राहपूर्णे नितांतम् ।
महासेन मामुद्धर त्वं कटाक्षा-
वलोकेन किंचित्प्रसीद प्रसीद ॥ 17 ॥

स्थिरां देहि भक्तिं भवत्पादपद्मे
श्रियं निश्चलां देहि मह्यं कुमार ।
गुहं चंद्रतारं सुवंशाभिवृद्धिं
कुरु त्वं प्रभो मे मनः कल्पसालः ॥ 18 ॥

नमस्ते नमस्ते महाशक्तिपाणे
नमस्ते नमस्ते लसद्वज्रपाणे ।
नमस्ते नमस्ते कटिन्यस्तपाणे
नमस्ते नमस्ते सदाभीष्टपाणे ॥ 19 ॥

नमस्ते नमस्ते महाशक्तिधारिन्
नमस्ते सुराणां महासौख्यदायिन् ।
नमस्ते सदा कुक्कुटेशाख्यक त्वं
समस्तापराधं विभो मे क्षमस्व ॥ 20 ॥

कुमारात्परं कर्मयोगं न जाने
कुमारात्परं कर्मशीलं न जाने ।
य एको मुनीनां हृदब्जाधिवासः
शिवांकं समारुह्य सत्पीठकल्पम् ॥ 21 ॥

विरिंचाय मंत्रोपदेशं चकार
प्रमोदेन सोऽयं तनोतु श्रियं मे ।
यमाहुः परं वेद शूरेषु मुख्यं
सदा यस्य शक्त्या जगत्भीतभीता ॥ 22 ॥

यमाश्रित्य देवाः स्थिरं स्वर्गपालाः
सदोंकाररूपं चिदानंदमीडे ।
गुहस्तोत्रमेतत् कृतं तारकारे
भुजंगप्रयातेन हृद्येन कांतम् ॥ 23 ॥

जना ये पठंते महाभक्तियुक्ताः
प्रमोदेन सायं प्रभाते विशेषः ।
न जन्मर्क्षयोगे यदा ते रुदांता
मनोवांछितान् सर्वकामान् लभंते ॥ 23 ॥

इति श्री सुब्रह्मण्य भुजंग प्रयात स्तोत्रम् ।

subrahmanya bhujanga prayata stotram in hindi

Copy
Give Feedback