Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

सुब्रह्मण्य भुजङ्ग प्रयात स्तोत्रम्

Subrahmanya Bhujanga Prayata Stotram in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

subrahmanya bhujanga prayata stotram in devanagari

भजेऽहं कुमारं भवानीकुमारं
गलोल्लासिहारं नमत्सद्विहारम् ।
रिपुस्तोमपारं नृसिंहावतारं
सदानिर्विकारं गुहं निर्विचारम् ॥ 1 ॥

नमामीशपुत्रं जपाशोणगात्रं
सुरारातिशत्रुं रवीन्द्वग्निनेत्रम् ।
महाबर्हिपत्रं शिवास्याब्जमित्रं
प्रभास्वत्कलत्रं पुराणं पवित्रम् ॥ 2 ॥

अनेकार्ककोटि-प्रभावज्ज्वलं तं
मनोहारि माणिक्य भूषोज्ज्वलं तम् ।
श्रितानामभीष्टं निशान्तं नितान्तं
भजे षण्मुखं तं शरच्चन्द्रकान्तम् ॥ 3 ॥

कृपावारि कल्लोलभास्वत्कटाक्षं
विराजन्मनोहारि शोणाम्बुजाक्षम् ।
प्रयोगप्रदानप्रवाहैकदक्षं
भजे कान्तिकान्तं परस्तोमरक्षम् ॥ 4 ॥

सुकस्तूरिसिन्दूरभास्वल्ललाटं
दयापूर्णचित्तं महादेवपुत्रम् ।
रवीन्दूल्लसद्रत्नराजत्किरीटं
भजे क्रीडिताकाश गङ्गाद्रिकूटम् ॥ 5 ॥

सुकुन्दप्रसूनावलीशोभिताङ्गं
शरत्पूर्णचन्द्रप्रभाकान्तिकान्तम् ।
शिरीषप्रसूनाभिरामं भवन्तं
भजे देवसेनापतिं वल्लभं तम् ॥ 6 ॥

सुलावण्यसत्सूर्यकोटिप्रतीकं
प्रभुं तारकारिं द्विषड्बाहुमीशम् ।
निजाङ्कप्रभादिव्यमानापदीशं
भजे पार्वतीप्राणपुत्रं सुकेशम् ॥ 7 ॥

अजं सर्वलोकप्रियं लोकनाथं
गुहं शूरपद्मादिदम्भोलिधारम् ।
सुचारुं सुनासापुटं सच्चरित्रं
भजे कार्तिकेयं सदा बाहुलेयम् ॥ 8 ॥

शरारण्यसम्भूतमिन्द्रादिवन्द्यं
द्विषड्बाहुसङ्ख्यायुधश्रेणिरम्यम् ।
मरुत्सारथिं कुक्कुटेशं सुकेतुं
भजे योगिहृत्पद्ममध्याधिवासम् ॥ 9 ॥

विरिञ्चीन्द्रवल्लीश देवेशमुख्यं
प्रशस्तामरस्तोमसंस्तूयमानम् ।
दिश त्वं दयालो श्रियं निश्चलां मे
विना त्वां गतिः का प्रभो मे प्रसीद ॥ 10 ॥

पदाम्भोजसेवा समायातबृन्दा-
रकश्रेणिकोटीरभास्वल्ललाटम् ।
कलत्रोल्लसत्पार्श्वयुग्मं वरेण्यं
भजे देवमाद्यन्तहीनप्रभावम् ॥ 11 ॥

भवाम्भोधिमध्ये तरङ्गे पतन्तं
प्रभो मां सदा पूर्णदृष्ट्या समीक्ष्य ।
भवद्भक्तिनावोद्धर त्वं दयालो
सुगत्यन्तरं नास्ति देव प्रसीद ॥ 12 ॥

गले रत्नभूषं तनौ मञ्जुवेषं
करे ज्ञानशक्तिं दरस्मेरमास्ये ।
कटिन्यस्तपाणिं शिखिस्थं कुमारं
भजेऽहं गुहादन्यदेवं न मन्ये ॥ 13 ॥

दयाहीनचित्तं परद्रोहपात्रं
सदा पापशीलं गुरोर्भक्तिहीनम् ।
अनन्यावलम्बं भवन्नेत्रपात्रं
कृपाशील मां भो पवित्रं कुरु त्वम् ॥ 14 ॥

महासेन गाङ्गेय वल्लीसहाय
प्रभो तारकारे षडास्यामरेश ।
सदा पायसान्नप्रदातर्गुहेति
स्मरिष्यामि भक्त्या सदाहं विभो त्वाम् ॥ 15 ॥

प्रतापस्य बाहो नमद्वीरबाहो
प्रभो कार्तिकेयेष्टकामप्रदेति ।
यदा ये पठन्ते भवन्तं तदेवं
प्रसन्नस्तु तेषां बहुश्रीं ददासि ॥ 16 ॥

अपारातिदारिद्र्यवाराशिमध्ये
भ्रमन्तं जनग्राहपूर्णे नितान्तम् ।
महासेन मामुद्धर त्वं कटाक्षा-
वलोकेन किञ्चित्प्रसीद प्रसीद ॥ 17 ॥

स्थिरां देहि भक्तिं भवत्पादपद्मे
श्रियं निश्चलां देहि मह्यं कुमार ।
गुहं चन्द्रतारं सुवंशाभिवृद्धिं
कुरु त्वं प्रभो मे मनः कल्पसालः ॥ 18 ॥

नमस्ते नमस्ते महाशक्तिपाणे
नमस्ते नमस्ते लसद्वज्रपाणे ।
नमस्ते नमस्ते कटिन्यस्तपाणे
नमस्ते नमस्ते सदाभीष्टपाणे ॥ 19 ॥

नमस्ते नमस्ते महाशक्तिधारिन्
नमस्ते सुराणां महासौख्यदायिन् ।
नमस्ते सदा कुक्कुटेशाख्यक त्वं
समस्तापराधं विभो मे क्षमस्व ॥ 20 ॥

कुमारात्परं कर्मयोगं न जाने
कुमारात्परं कर्मशीलं न जाने ।
य एको मुनीनां हृदब्जाधिवासः
शिवाङ्कं समारुह्य सत्पीठकल्पम् ॥ 21 ॥

विरिञ्चाय मन्त्रोपदेशं चकार
प्रमोदेन सोऽयं तनोतु श्रियं मे ।
यमाहुः परं वेद शूरेषु मुख्यं
सदा यस्य शक्त्या जगत्भीतभीता ॥ 22 ॥

यमाश्रित्य देवाः स्थिरं स्वर्गपालाः
सदोङ्काररूपं चिदानन्दमीडे ।
गुहस्तोत्रमेतत् कृतं तारकारे
भुजङ्गप्रयातेन हृद्येन कान्तम् ॥ 23 ॥

जना ये पठन्ते महाभक्तियुक्ताः
प्रमोदेन सायं प्रभाते विशेषः ।
न जन्मर्क्षयोगे यदा ते रुदान्ता
मनोवाञ्छितान् सर्वकामान् लभन्ते ॥ 23 ॥

इति श्री सुब्रह्मण्य भुजङ्ग प्रयात स्तोत्रम् ।

subrahmanya bhujanga prayata stotram in devanagari

Copy
Give Feedback