Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

वन्दे भारतमातरं वद, भारत

Vande Bharata Mataram Vada Bharata in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

vande bharata mataram vada bharata in devanagari

वन्दे भारतमातरं वद, भारत ! वन्दे मातरं
वन्दे मातरं, वन्दे मातरं, वन्दे मातरम् ॥

जन्मभूरियं वीरवराणां त्यागधनानां धीराणां
मातृभूमये लोकहिताय च नित्यसमर्पितचित्तानाम् ।
जितकोपानां कृतकृत्यानां वित्तं तृणवद् दृष्टवतां
मातृसेवनादात्मजीवने सार्थकतामानीतवताम् ॥ 1 ॥

ग्रामे ग्रामे कर्मदेशिकास्तत्त्ववेदिनो धर्मरताः ।
अर्थसञ्चयस्त्यागहेतुको धर्मसम्मतः काम इह ।
नश्वरबुद्धिः क्षणपरिवर्तिनि काये, आत्मन्यादरधीः
जातो यत्र हि स्वस्य जन्मना धन्यं मन्यत आत्मानम् ॥ 2 ॥

मातस्त्वत्तो वित्तं चित्तं स्वत्वं प्रतिभा देहबलं
नाहं कर्ता, कारयसि त्वं, निःस्पृहता मम कर्मफले ।
अर्पितमेतज्जीवनपुष्पं मातस्तव शुभपादपले
नान्यो मन्त्रो नान्यचिन्तनं नान्यद्देशहिताद्धि ॠते ॥ 3 ॥

रचन: श्री जनार्दन हेग्डे

vande bharata mataram vada bharata in devanagari

Copy
Give Feedback