Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

१ (रुद्रयामले)

Sri Bagalamukhi Kavacham 1 Rudrayamale in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

विनियोगः –
अस्य श्रीपीताम्बरा बगलामुखी कवचस्य महादेव ऋषिः, उष्णिक् छन्दः, श्रीपीताम्बरा देवता, स्थिरमाया बीजं, स्वाहा शक्तिः, अं ठः कीलकं, मम सन्निहितानां दूरस्थानां सर्वदुष्टानां वाङ्मुखपदजिह्वापवर्गाणां स्तम्भनपूर्वकं सर्वसम्पत्तिप्राप्ति चतुर्वर्गफलसाधनार्थे जपे विनियोगः ॥

ध्यानम् –
मध्येसुधाब्धिमणिमण्डपरत्नवेद्यां
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गीं
देवीं भजामि धृतमुद्गरवैरिजिह्वाम् ॥ १ ॥

जिह्वाग्रमादाय करेण देवीं
वामेन शत्रून् परिपीडयन्तीम् ।
गदाभिघातेन च दक्षिणेन
पीताम्बराढ्यां द्विभुजां नमामि ॥ २ ॥

हिमवत्तनया गौरी कैलासेऽथ शिलोच्चये ।
अपृच्छद्गिरिशं देवी साधकानुग्रहेच्छया ॥ १ ॥

श्रीपार्वत्युवाच ।
देवदेव महादेव भक्तानुग्रहकारक ।
शृणु विज्ञाप्यते यत्तु श्रुत्वा सर्वं निवेदय ॥ २ ॥

विशुद्धाः कौलिका लोके ये मत्कर्मपरायणाः ।
तेषां निन्दाकरा लोके बहवः किल दुर्जनाः ॥ ३ ॥

मनोबाधां विदधते मुहुः कटुभिरुक्तिभिः ।
तेषामाशु विनाशाय त्वया देव प्रकाशितः ॥ ४ ॥

यो मन्त्रो बगलामुख्याः सर्वकामसमृद्धिदः ।
कवचं तस्य मन्त्रस्य प्रकाशय दयानिधे ॥ ५ ॥

यस्य स्मरणमात्रेण पशूनां निग्रहो भवेत् ।
आत्मानं सततं रक्षेद्व्याघ्राग्निरिपुराजतः ॥ ६ ॥

श्रुत्वाऽथ पार्वतीवाक्यं ज्ञात्वा तस्या मनोगतम् ।
विहस्य तां परिष्वज्य साधु साध्वित्यपूजयत् ॥ ७ ॥

तदाह कवचं देव्यै कृपया करुणानिधिः ।
श्रीशङ्कर उवाच ।
शृणु त्वं बगलामुख्याः कवचं सर्वकामदम् ॥ ८ ॥

यस्य स्मरणमात्रेण बगलामुखी प्रसीदति ।
सर्वसिद्धिप्रदा प्राच्यां पातु मां बगलामुखी ॥ ९ ॥

पीताम्बरा तु चाग्नेय्यां याम्यां महिषमर्दिनी ।
नैरृत्यां चण्डिका पातु भक्तानुग्रहकारिणी ॥ १० ॥

पातु नित्यं महादेवी प्रतीच्यां शूकरानना ।
वायव्ये पातु मां काली कौबेर्यां त्रिपुराऽवतु ॥ ११ ॥

ईशान्यां भैरवी पातु पातु नित्यं सुरप्रिया ।
ऊर्ध्वं वागीश्वरी पातु मध्ये मां ललिताऽवतु ॥ १२ ॥

अधस्तादपि मां पातु वाराही चक्रधारिणी ।
मस्तकं पातु मे नित्यं श्रीदेवी बगलामुखी ॥ १३ ॥

फालं पीताम्बरा पातु नेत्रे त्रिपुरभैरवी ।
श्रवणौ विजया पातु नासिकायुगलं जया ॥ १४ ॥

शारदा वचनं पातु जिह्वां पातु सुरेश्वरी ।
कण्ठं रक्षतु रुद्राणी स्कन्धौ मे विन्ध्यवासिनी ॥ १५ ॥

सुन्दरी पातु बाहू मे जया पातु करौ सदा ।
भवानी हृदयं पातु मध्यं मे भुवनेश्वरी ॥ १६ ॥

नाभिं पातु महामाया कटिं कमललोचना ।
ऊरू मे पातु मातङ्गी जानुनी चापराजिता ॥ १७ ॥

जङ्घे कपालिनी पातु चरणौ चञ्चलेक्षणा ।
सर्वतः पातु मां तारा योगिनी पातु चाग्रतः ॥ १८ ॥

पृष्ठं मे पातु कौमारी दक्षपार्श्वे शिवाऽवतु ।
रुद्राणी वामपार्श्वे तु पातु मां सर्वदेष्टदा ॥ १९ ॥

स्तुता सर्वेषु देवेषु रक्तबीजविनाशिनी ।
इत्येतत् कवचं दिव्यं धर्मकामार्थसाधनम् ॥ २० ॥

गोपनीयं प्रयत्नेन कस्यचिन्न प्रकाशयेत् ।
यः सकृच्छृणुयादेतत् कवचं मन्मुखोदितम् ॥ २१ ॥

स सर्वान् लभते कामान् मूर्खो विद्यामवाप्नुयात् ।
तस्याशु शत्रवो यान्ति यमस्य भवने शिवे ॥ २२ ॥

इति श्रीरुद्रयामले महातन्त्रे श्री बगलामुखी कवचम् ।

Copy
Give Feedback