Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री आद्य काली स्तोत्रं

Sri Aadya Kali Stotram in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri aadya kali stotram in devanagari

ब्रह्मोवाच
शृणु वत्स प्रवक्ष्यामि आद्यास्तोत्रं महाफलम् ।
यः पठेत् सततं भक्त्या स एव विष्णुवल्लभः ॥ 1 ॥

मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित् कलौ युगे ।
अपुत्रा लभते पुत्रं त्रिपक्षं श्रवणं यदि ॥ 2 ॥

द्वौ मासौ बन्धनान्मुक्ति विप्रवक्त्रात् श्रुतं यदि ।
मृतवत्सा जीववत्सा षण्मासं श्रवणं यदि ॥ 3 ॥

नौकायां सङ्कटे युद्धे पठनाज्जयमाप्नुयात् ।
लिखित्वा स्थापयेद्गेहे नाग्निचौरभयं क्वचित् ॥ 4 ॥

राजस्थाने जयी नित्यं प्रसन्नाः सर्वदेवता ।
ॐ ह्रीम् ।
ब्रह्माणी ब्रह्मलोके च वैकुण्ठे सर्वमङ्गला ॥ 5 ॥

इन्द्राणी अमरावत्यामम्बिका वरुणालये ।
यमालये कालरूपा कुबेरभवने शुभा ॥ 6 ॥

महानन्दाग्निकोणे च वायव्यां मृगवाहिनी ।
नैरृत्यां रक्तदन्ता च ऐशान्यां शूलधारिणी ॥ 7 ॥

पाताले वैष्णवीरूपा सिंहले देवमोहिनी ।
सुरसा च मणिद्विपे लङ्कायां भद्रकालिका ॥ 8 ॥

रामेश्वरी सेतुबन्धे विमला पुरुषोत्तमे ।
विरजा औड्रदेशे च कामाक्ष्या नीलपर्वते ॥ 9 ॥

कालिका वङ्गदेशे च अयोध्यायां महेश्वरी ।
वाराणस्यामन्नपूर्णा गयाक्षेत्रे गयेश्वरी ॥ 10 ॥

कुरुक्षेत्रे भद्रकाली व्रजे कात्यायनी परा ।
द्वारकायां महामाया मथुरायां महेश्वरी ॥ 11 ॥

क्षुधा त्वं सर्वभूतानां वेला त्वं सागरस्य च ।
नवमी शुक्लपक्षस्य कृष्णस्यैकादशी परा ॥ 12 ॥

दक्षसा दुहिता देवी दक्षयज्ञविनाशिनी ।
रामस्य जानकी त्वं हि रावणध्वंसकारिणी ॥ 13 ॥

चण्डमुण्डवधे देवी रक्तबीजविनाशिनी ।
निशुम्भशुम्भमथिनी मधुकैटभघातिनी ॥ 14 ॥

विष्णुभक्तिप्रदा दुर्गा सुखदा मोक्षदा सदा ।
आद्यास्तवमिमं पुण्यं यः पठेत् सततं नरः ॥ 15 ॥

सर्वज्वरभयं न स्यात् सर्वव्याधिविनाशनम् ।
कोटितीर्थफलं तस्य लभते नात्र संशयः ॥ 16 ॥

जया मे चाग्रतः पातु विजया पातु पृष्ठतः ।
नारायणी शीर्षदेशे सर्वाङ्गे सिंहवाहिनी ॥ 17 ॥

शिवदूती उग्रचण्डा प्रत्यङ्गे परमेश्वरी ।
विशालाक्षी महामाया कौमारी शङ्खिनी शिवा ॥ 18 ॥

चक्रिणी जयदात्री च रणमत्ता रणप्रिया ।
दुर्गा जयन्ती काली च भद्रकाली महोदरी ॥ 19 ॥

नारसिंही च वाराही सिद्धिदात्री सुखप्रदा ।
भयङ्करी महारौद्री महाभयविनाशिनी ॥ 20 ॥

इति श्रीब्रह्मयामले ब्रह्मनारदसंवादे श्री आद्या स्तोत्रम् ॥

sri aadya kali stotram in devanagari

Copy
Give Feedback