Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

विनायक अष्टोत्तर शत नाम स्तोत्रम्

Vinayaka Ashtottara Sata Nama Stotram in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

vinayaka ashtottara sata nama stotram in sanskrit

विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ।
स्कन्दाग्रजोऽव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ 1 ॥

अग्निगर्वच्छिदिन्द्रश्रीप्रदो वाणीप्रदायकः ।
सर्वसिद्धिप्रदः शर्वतनयः शर्वरीप्रियः ॥ 2 ॥

सर्वात्मकः सृष्टिकर्ता देवानीकार्चितः शिवः ।
सिद्धिबुद्धिप्रदः शान्तो ब्रह्मचारी गजाननः ॥ 3 ॥

द्वैमातुरो मुनिस्तुत्यो भक्तविघ्नविनाशनः ।
एकदन्तश्चतुर्बाहुश्चतुरः शक्तिसंयुतः ॥ 4 ॥

लम्बोदरः शूर्पकर्णो हरिर्ब्रह्मविदुत्तमः ।
काव्यो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ 5 ॥

पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः ।
अकल्मषः स्वयं सिद्धः सिद्धार्चितपदाम्बुजः ॥ 6 ॥

बीजापूरफलासक्तो वरदः शाश्वतः कृती ।
द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ 7 ॥

श्रीदोऽज उत्पलकरः श्रीपतिस्तुतिहर्षितः ।
कुलाद्रिभेत्ता जटिलश्चन्द्रचूडोऽमरेश्वरः ॥ 8 ॥

नागयज्ञोपवीती च कलिकल्मषनाशनः ।
स्थूलकण्ठः स्वयङ्कर्ता सामघोषप्रियः परः ॥ 9 ॥

स्थूलतुण्डोऽग्रणीर्धीरो वागीशः सिद्धिदायकः ।
दूर्वाबिल्वप्रियः कान्तः पापहारी समाहितः ॥ 10 ॥

आश्रितश्रीकरः सौम्यो भक्तवाञ्छितदायकः ।
शान्तोऽच्युतार्च्यः कैवल्यो सच्चिदानन्दविग्रहः ॥ 11 ॥

ज्ञानी दयायुतो दान्तो ब्रह्मद्वेषविवर्जितः ।
प्रमत्तदैत्यभयदो व्यक्तमूर्तिरमूर्तिमान् ॥ 12 ॥

शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ।
स्वलावण्यसुधासारजितमन्मथविग्रहः ॥ 13 ॥

समस्तजगदाधारो मायी मूषकवाहनः ।
रमार्चितो विधिश्चैव श्रीकण्ठो विबुधेश्वरः ॥ 14 ॥

चिन्तामणिद्वीपपतिः परमात्मा गजाननः ।
हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ॥ 15 ॥

अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुम् ।
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ॥ 16 ॥

दूर्वादलैः बिल्वपत्रैः पुष्पैर्वा चन्दनाक्षतैः ।
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ॥ 17 ॥

इति भविष्योत्तरपुराणे विनायकाष्टोत्तरशतनाम स्तोत्रम् ।

vinayaka ashtottara sata nama stotram in sanskrit

Copy
Give Feedback