Surya Grahana Shanti Parihara Slokas in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
surya grahana shanti parihara slokas in sanskrit
शान्ति श्लोकः
इन्द्रोऽनलो दण्डधरश्च रक्षः
प्राचेतसो वायु कुबेर शर्वाः ।
मज्जन्म ऋक्षे मम राशि संस्थे
सूर्योपरागं शमयन्तु सर्वे ॥
ग्रहण पीडा परिहार श्लोकाः
योऽसौ वज्रधरो देवः आदित्यानां प्रभुर्मतः ।
सहस्रनयनः शक्रः ग्रहपीडां व्यपोहतु ॥ 1
मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः ।
चन्द्रसूर्योपरागोत्थां अग्निः पीडां व्यपोहतु ॥ 2
यः कर्मसाक्षी लोकानां यमो महिषवाहनः ।
चन्द्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥ 3
रक्षो गणाधिपः साक्षात् प्रलयानलसन्निभः ।
उग्रः करालो निर्ऋतिः ग्रहपीडां व्यपोहतु ॥ 4
नागपाशधरो देवः सदा मकरवाहनः ।
वरुणो जललोकेशो ग्रहपीडां व्यपोहतु ॥ 5
यः प्राणरूपो लोकानां वायुः कृष्णमृगप्रियः ।
चन्द्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥ 6
योऽसौ निधिपतिर्देवः खड्गशूलधरो वरः ।
चन्द्रसूर्योपरागोत्थां कलुषं मे व्यपोहतु ॥ 7
योऽसौ शूलधरो रुद्रः शङ्करो वृषवाहनः ।
चन्द्रसूर्योपरागोत्थां दोषं नाशयतु द्रुतम् ॥ 8
ॐ शान्तिः शान्तिः शान्तिः ।
surya grahana shanti parihara slokas in sanskrit
Leave a Comment