Surya Grahana Shanti Parihara Slokas in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
surya grahana shanti parihara slokas in nepali
शांति श्लोकः
इंद्रोऽनलो दंडधरश्च रक्षः
प्राचेतसो वायु कुबेर शर्वाः ।
मज्जन्म ऋक्षे मम राशि संस्थे
सूर्योपरागं शमयंतु सर्वे ॥
ग्रहण पीडा परिहार श्लोकाः
योऽसौ वज्रधरो देवः आदित्यानां प्रभुर्मतः ।
सहस्रनयनः शक्रः ग्रहपीडां व्यपोहतु ॥ 1
मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः ।
चंद्रसूर्योपरागोत्थां अग्निः पीडां व्यपोहतु ॥ 2
यः कर्मसाक्षी लोकानां यमो महिषवाहनः ।
चंद्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥ 3
रक्षो गणाधिपः साक्षात् प्रलयानलसन्निभः ।
उग्रः करालो निर्ऋतिः ग्रहपीडां व्यपोहतु ॥ 4
नागपाशधरो देवः सदा मकरवाहनः ।
वरुणो जललोकेशो ग्रहपीडां व्यपोहतु ॥ 5
यः प्राणरूपो लोकानां वायुः कृष्णमृगप्रियः ।
चंद्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥ 6
योऽसौ निधिपतिर्देवः खड्गशूलधरो वरः ।
चंद्रसूर्योपरागोत्थां कलुषं मे व्यपोहतु ॥ 7
योऽसौ शूलधरो रुद्रः शंकरो वृषवाहनः ।
चंद्रसूर्योपरागोत्थां दोषं नाशयतु द्रुतम् ॥ 8
ॐ शांतिः शांतिः शांतिः ।
surya grahana shanti parihara slokas in nepali
Leave a Comment