Sri Madhvacharya Kruta Dwadasha Stotra 11 in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
sri madhvacharya kruta dwadasha stotra 11 in sanskrit
अथ एकादशस्तोत्रम्
उदीर्णमजरं दिव्यं अमृतस्यन्द्यधीशितुः ।
आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ 1॥
सर्ववेदपदोद्गीतं इन्दिरावासमुत्तमम् (इन्दिराधारमुत्तमम्) ।
आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ 2॥
सर्वदेवादिदेवस्य विदारितमहत्तमः ।
आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ 3॥
उदारमादरान्नित्यं अनिन्द्यं सुन्दरीपतेः ।
आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ 4॥
इन्दीवरोदरनिभं सुपूर्णं वादिमोहनम् (वादिमोहदम्) ।
आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ 5॥
दातृसर्वामरैश्वर्यविमुक्त्यादेरहो परम् (वरम्) ।
आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ 6॥
दूराद्दुरतरं यत्तु तदेवान्तिकमन्तिकात् ।
आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ 7॥
पूर्णसर्वगुणैकार्णमनाद्यन्तं सुरेशितुः ।
आनन्दस्य पदं वन्दे ब्रह्मेन्द्रादि अभिवन्दितम् ॥ 8॥
आनन्दतीर्थमुनिना हरेरानन्दरूपिणः ।
कृतं स्तोत्रमिदं पुण्यं पठन्नानन्दमाप्नुयात् ॥ 9॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचितं
द्वादशस्तोत्रेषु एकादशस्तोत्रं सम्पूर्णम्
sri madhvacharya kruta dwadasha stotra 11 in sanskrit
Leave a Comment