Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री कृष्ण कृत दुर्गा स्तोत्रम्

Sri Krishna Kruta Durga Stotram in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri krishna kruta durga stotram in sanskrit

श्रीकृष्ण उवाच ।
त्वमेव सर्वजननी मूलप्रकृतिरीश्वरी ।
त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका ॥ 1 ॥

कार्यार्थे सगुणा त्वं च वस्तुतो निर्गुणा स्वयम् ।
परब्रह्मस्वरूपा त्वं सत्या नित्या सनातनी ॥ 2 ॥

तेजः स्वरूपा परमा भक्तानुग्रविग्रहा ।
सर्वस्वरूपा सर्वेशा सर्वाधारा परात्परा ॥ 3 ॥

सर्वबीजस्वरूपा च सर्वपूज्या निराश्रया ।
सर्वज्ञा सर्वतोभद्रा सर्वमङ्गलमङ्गला ॥ 4 ॥

सर्वबुद्धिस्वरूपा च सर्वशक्तिस्वरूपिणी ।
सर्वज्ञानप्रदा देवी सर्वज्ञा सर्वभाविनी ॥ 5 ॥

त्वं स्वाहा देवदाने च पितृदाने स्वधा स्वयम् ।
दक्षिणा सर्वदाने च सर्वशक्तिस्वरूपिणी ॥ 6 ॥

निद्रा त्वं च दया त्वं च तृष्णा त्वं चात्मनः प्रिया ।
क्षुत् क्षान्तिः शान्तिरीशा च कान्तिस्तुष्टिश्च शाश्वती ॥ 7 ॥

श्रद्धा पुष्टिश्च तन्द्रा च लज्जा शोभा दया तथा ।
सतां सम्पत्स्वरूपा श्रीर्विपत्तिरसतामिह ॥ 8 ॥

प्रीतिरूपा पुण्यवतां पापिनां कलहाङ्कुरा ।
शश्वत्कर्ममयी शक्तिः सर्वदा सर्वजीविनाम् ॥ 9 ॥

देवेभ्यः स्वपदो दात्री धातुर्धात्री कृपामयी ।
हिताय सर्वदेवानां सर्वासुरविनाशिनी ॥ 10 ॥

योगिनिद्रा योगरूपा योगदात्री च योगिनाम् ।
सिद्धिस्वरूपा सिद्धानां सिद्धिदा सिद्धयोगिनी ॥ 11 ॥

माहेश्वरी च ब्रह्माणी विष्णुमाया च वैष्णवी ।
भद्रदा भद्रकाली च सर्वलोकभयङ्करी ॥ 12 ॥

ग्रामे ग्रामे ग्रामदेवी गृहदेवी गृहे गृहे ।
सतां कीर्तिः प्रतिष्ठा च निन्दा त्वमसतां सदा ॥ 13 ॥

महायुद्धे महामारी दुष्टसंहाररूपिणी ।
रक्षास्वरूपा शिष्टानां मातेव हितकारिणी ॥ 14 ॥

वन्द्या पूज्या स्तुता त्वं च ब्रह्मादीनां च सर्वदा ।
ब्रह्मण्यरूपा विप्राणां तपस्या च तपस्विनाम् ॥ 15 ॥

विद्या विद्यावतां त्वं च बुद्धिर्बुद्धिमतां सताम् ।
मेधा स्मृतिस्वरूपा च प्रतिभा प्रतिभावताम् ॥ 16 ॥

राज्ञां प्रतापरूपा च विशां वाणिज्यरूपिणी ।
सृष्टौ सृष्टिस्वरूपा त्वं रक्षारूपा च पालने ॥ 17 ॥

तथान्ते त्वं महामारी विश्वे विश्वैश्च पूजिते ।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी ॥ 18 ॥

दुरत्यया मे माया त्वं यया सम्मोहितं जगत् ।
यया मुग्धो हि विद्वांश्च मोक्षमार्गं न पश्यति ॥ 19 ॥

इत्यात्मना कृतं स्तोत्रं दुर्गाया दुर्गनाशनम् ।
पूजाकाले पठेद्यो हि सिद्धिर्भवति वाञ्छिता ॥ 20 ॥

इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने षट्षष्टितमोऽध्याये श्री दुर्गा स्तोत्रम् ।

sri krishna kruta durga stotram in sanskrit

Copy
Give Feedback