Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री बगलामुखी अष्टोत्तर शत नामा स्तोत्रं

Sri Bagalamukhi Ashtottara Satanama Stotram in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri bagalamukhi ashtottara satanama stotram in sanskrit

नारद उवाच
भगवन् देवदेवेश सृष्टिस्थितिलयेश्वर ।
शतमष्टोत्तरं नाम्नां बगलाया वदाधुना ॥ 1 ॥

श्री भगवानुवाच
शृणु वत्स प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
पीताम्बर्या महादेव्याः स्तोत्रं पापप्रणाशनम् ॥ 2 ॥

यस्य प्रपठनात्सद्यो वादी मूकोभवेत् क्षणात् ।
रिपवस्स्तम्भनं यान्ति सत्यं सत्यं वदाम्यहम् ॥ 3 ॥

ॐ अस्य श्रीपीताम्बर्यष्टोत्तरशतनामस्तोत्रस्य सदाशिव ऋषिः अनुष्टुप्छन्दः श्रीपीताम्बरी देवता श्रीपीताम्बरी प्रीतये जपे विनियोगः ।

ॐ बगला विष्णुवनिता विष्णुशङ्करभामिनी ।
बहुला देवमाता च महाविष्णुप्रसूरपि ॥ 4 ॥

महामत्स्या महाकूर्मा महावाराहरूपिणी ।
नारसिंहप्रिया रम्या वामना पटुरूपिणी ॥ 5 ॥

जामदग्न्यस्वरूपा च रामा रामप्रपूजिता ।
कृष्णा कपर्दिनी कृत्या कलहा च विकारिणी ॥ 6 ॥

बुद्धिरूपा बुद्धभार्या बौद्धपाषण्डखण्डिनी ।
कल्किरूपा कलिहरा कलिदुर्गतिनाशिनी ॥ 7 ॥

कोटिसूर्यप्रतीकाशा कोटिकन्दर्पमोहिनी ।
केवला कठिना काली कला कैवल्यदायिनी ॥ 8 ॥

केशवी केशवाराध्या किशोरी केशवस्तुता ।
रुद्ररूपा रुद्रमूर्ती रुद्राणी रुद्रदेवता ॥ 9 ॥

नक्षत्ररूपा नक्षत्रा नक्षत्रेशप्रपूजिता ।
नक्षत्रेशप्रिया नित्या नक्षत्रपतिवन्दिता ॥ 10 ॥

नागिनी नागजननी नागराजप्रवन्दिता ।
नागेश्वरी नागकन्या नागरी च नगात्मजा ॥ 11 ॥

नगाधिराजतनया नगराजप्रपूजिता ।
नवीना नीरदा पीता श्यामा सौन्दर्यकारिणी ॥ 12 ॥

रक्ता नीला घना शुभ्रा श्वेता सौभाग्यदायिनी ।
सुन्दरी सौभगा सौम्या स्वर्णाभा स्वर्गतिप्रदा ॥ 13 ॥

रिपुत्रासकरी रेखा शत्रुसंहारकारिणी ।
भामिनी च तथा माया स्तम्भिनी मोहिनी शुभा ॥ 14 ॥

रागद्वेषकरी रात्री रौरवध्वंसकारिणी ।
यक्षिणी सिद्धनिवहा सिद्धेशा सिद्धिरूपिणी ॥ 15 ॥

लङ्कापतिध्वंसकरी लङ्केशरिपुवन्दिता ।
लङ्कानाथकुलहरा महारावणहारिणी ॥ 16 ॥

देवदानवसिद्धौघपूजितापरमेश्वरी ।
पराणुरूपा परमा परतन्त्रविनाशिनी ॥ 17 ॥

वरदा वरदाराध्या वरदानपरायणा ।
वरदेशप्रिया वीरा वीरभूषणभूषिता ॥ 18 ॥

वसुदा बहुदा वाणी ब्रह्मरूपा वरानना ।
बलदा पीतवसना पीतभूषणभूषिता ॥ 19 ॥

पीतपुष्पप्रिया पीतहारा पीतस्वरूपिणी ।
इति ते कथितं विप्र नाम्नामष्टोत्तरं शतम् ॥ 20 ॥

यः पठेत्पाठयेद्वापि शृणुयाद्वा समाहितः ।
तस्य शत्रुः क्षयं सद्यो याति नैवात्र संशयः ॥ 21 ॥

प्रभातकाले प्रयतो मनुष्यः
पठेत्सुभक्त्या परिचिन्त्य पीताम् ।
ध्रुवं भवेत्तस्य समस्तवृद्धिः
विनाशमायाति च तस्य शत्रुः ॥ 22 ॥

इति श्रीविष्णुयामले नारदविष्णुसंवादे श्रीबगलाष्टोत्तरशतनामस्तोत्रम् ।

sri bagalamukhi ashtottara satanama stotram in sanskrit

Copy
Give Feedback