Kritva Nava Dhrudha Sankalpam in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
kritva nava dhrudha sankalpam in sanskrit
कृत्वा नवदृढसङ्कल्पम्
वितरन्तो नवसन्देशम्
घटयामो नव सङ्घटनम्
रचयामो नवमितिहासम् ॥
नवमन्वन्तर शिल्पीनः
राष्ट्रसमुन्नति काङ्क्षिणः
त्यागधनाः कार्येकरताः
कृतिनिपुणाः वयमविषण्णाः ॥ कृत्वा ॥
भेदभावनां निरासयन्तः
दिनदरिद्रान् समुद्धरन्तः
दुःखवितप्तान् समाश्वसन्तः
कृतसङ्कल्पान् सदा स्मरन्तः ॥ कृत्वा ॥
प्रगतिपथान्नहि विचलेम
परम्परां संरक्षेम
समोत्साहिनो निरुद्वेगीनो
नित्य निरन्तर गतिशीलाः ॥ कृत्वा ॥
रचन: श्री जनार्दन हॆग्डे
kritva nava dhrudha sankalpam in sanskrit
Leave a Comment