Kritva Nava Dhrudha Sankalpam in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
kritva nava dhrudha sankalpam in hindi
कृत्वा नवदृढसंकल्पम्
वितरंतो नवसंदेशम्
घटयामो नव संघटनम्
रचयामो नवमितिहासम् ॥
नवमन्वंतर शिल्पीनः
राष्ट्रसमुन्नति कांक्षिणः
त्यागधनाः कार्येकरताः
कृतिनिपुणाः वयमविषण्णाः ॥ कृत्वा ॥
भेदभावनां निरासयंतः
दिनदरिद्रान् समुद्धरंतः
दुःखवितप्तान् समाश्वसंतः
कृतसंकल्पान् सदा स्मरंतः ॥ कृत्वा ॥
प्रगतिपथान्नहि विचलेम
परंपरां संरक्षेम
समोत्साहिनो निरुद्वेगीनो
नित्य निरंतर गतिशीलाः ॥ कृत्वा ॥
रचन: श्री जनार्दन हॆग्डे
kritva nava dhrudha sankalpam in hindi
Leave a Comment