Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री षण्मुख पंचरत्न स्तुति

Sri Shanmukha Pancharatna Stuti in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri shanmukha pancharatna stuti in nepali

स्फुरद्विद्युद्वल्लीवलयितमगोत्संगवसतिं
भवाप्पित्तप्लुष्टानमितकरुणाजीवनवशात् ।
अवंतं भक्तानामुदयकरमंभोधर इति
प्रमोदादावासं व्यतनुत मयूरोऽस्य सविधे ॥ 1 ॥

सुब्रह्मण्यो यो भवेज्ज्ञानशक्त्या
सिद्धं तस्मिंदेवसेनापतित्वम् ।
इत्थं शक्तिं देवसेनापतित्वं
सुब्रह्मण्यो बिभ्रदेष व्यनक्ति ॥ 2 ॥

पक्षोऽनिर्वचनीयो दक्षिण इति धियमशेषजनतायाः ।
जनयति बर्ही दक्षिणनिर्वचनायोग्यपक्षयुक्तोऽयम् ॥ 3 ॥

यः पक्षमनिर्वचनं याति समवलंब्य दृश्यते तेन ।
ब्रह्म परात्परममलं सुब्रह्मण्याभिधं परं ज्योतिः ॥ 4 ॥

षण्मुखं हसन्मुखं सुखांबुराशिखेलनं
सन्मुनींद्रसेव्यमानपादपंकजं सदा ।
मन्मथादिशत्रुवर्गनाशकं कृपांबुधिं
मन्महे मुदा हृदि प्रपन्नकल्पभूरुहम् ॥ 5 ॥

इति जगद्गुरु शृंगेरीपीठाधिप श्रीचंद्रशेखरभारती श्रीपादैः विरचिता श्रीषण्मुखपंचरत्नस्तुतिः ।

sri shanmukha pancharatna stuti in nepali

Copy
Give Feedback