Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री भुवनॆश्वरी अष्टोत्तर शत नामा स्तोत्रं

Sri Bhuvaneshwari Ashtottara Satanama Stotram in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri bhuvaneshwari ashtottara satanama stotram in nepali

कैलासशिखरे रम्ये नानारत्नोपशोभिते ।
नरनारीहितार्थाय शिवं पप्रच्छ पार्वती ॥ 1 ॥

देव्युवाच
भुवनेशी महाविद्या नाम्नामष्टोत्तरं शतम् ।
कथयस्व महादेव यद्यहं तव वल्लभा ॥ 2 ॥

ईश्वर उवाच
शृणु देवि महाभागे स्तवराजमिदं शुभम् ।
सहस्रनाम्नामधिकं सिद्धिदं मोक्षहेतुकम् ॥ 3 ॥

शुचिभिः प्रातरुत्थाय पठितव्यः समाहितैः ।
त्रिकालं श्रद्धया युक्तैः सर्वकामफलप्रदः ॥ 4 ॥

अस्य श्रीभुवनेश्वर्यष्टोत्तरशतनाम स्तोत्रमंत्रस्य शक्तिरृषिः गायत्री छंदः श्रीभुवनेश्वरी देवता चतुर्विधफल पुरुषार्थ सिद्ध्यर्थे जपे विनियोगः ॥

अथ स्तोत्रम्
ॐ महामाया महाविद्या महायोगा महोत्कटा ।
माहेश्वरी कुमारी च ब्रह्माणी ब्रह्मरूपिणी ॥ 5 ॥

वागीश्वरी योगरूपा योगिनीकोटिसेविता ।
जया च विजया चैव कौमारी सर्वमंगला ॥ 6 ॥

हिंगुला च विलासी च ज्वालिनी ज्वालरूपिणी ।
ईश्वरी क्रूरसंहारी कुलमार्गप्रदायिनी ॥ 7 ॥

वैष्णवी सुभगाकारा सुकुल्या कुलपूजिता ।
वामांगा वामचारा च वामदेवप्रिया तथा ॥ 8 ॥

डाकिनी योगिनीरूपा भूतेशी भूतनायिका ।
पद्मावती पद्मनेत्रा प्रबुद्धा च सरस्वती ॥ 9 ॥

भूचरी खेचरी माया मातंगी भुवनेश्वरी ।
कांता पतिव्रता साक्षी सुचक्षुः कुंडवासिनी ॥ 10 ॥

उमा कुमारी लोकेशी सुकेशी पद्मरागिणी ।
इंद्राणी ब्रह्मचंडाली चंडिका वायुवल्लभा ॥ 11 ॥

सर्वधातुमयीमूर्तिर्जलरूपा जलोदरी ।
आकाशी रणगा चैव नृकपालविभूषणा ॥ 12 ॥

नर्मदा मोक्षदा चैव धर्मकामार्थदायिनी ।
गायत्री चाऽथ सावित्री त्रिसंध्या तीर्थगामिनी ॥ 13 ॥

अष्टमी नवमी चैव दशम्यैकादशी तथा ।
पौर्णमासी कुहूरूपा तिथिमूर्तिस्वरूपिणी ॥ 14 ॥

सुरारिनाशकारी च उग्ररूपा च वत्सला ।
अनला अर्धमात्रा च अरुणा पीतलोचना ॥ 15 ॥

लज्जा सरस्वती विद्या भवानी पापनाशिनी ।
नागपाशधरा मूर्तिरगाधा धृतकुंडला ॥ 16 ॥

क्षत्ररूपा क्षयकरी तेजस्विनी शुचिस्मिता ।
अव्यक्ताव्यक्तलोका च शंभुरूपा मनस्विनी ॥ 17 ॥

मातंगी मत्तमातंगी महादेवप्रिया सदा ।
दैत्यघ्नी चैव वाराही सर्वशास्त्रमयी शुभा ॥ 18 ॥

य इदं पठते भक्त्या शृणुयाद्वा समाहितः ।
अपुत्रो लभते पुत्रं निर्धनो धनवान् भवेत् ॥ 19 ॥

मूर्खोऽपि लभते शास्त्रं चोरोऽपि लभते गतिम् ।
वेदानां पाठको विप्रः क्षत्रियो विजयी भवेत् ॥ 20 ॥

वैश्यस्तु धनवान् भूयाच्छूद्रस्तु सुखमेधते ।
अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः ॥ 21 ॥

ये पठंति सदा भक्त्या न ते वै दुःखभागिनः ।
एककालं द्विकालं वा त्रिकालं वा चतुर्थकम् ॥ 22 ॥

ये पठंति सदा भक्त्या स्वर्गलोके च पूजिताः ।
रुद्रं दृष्ट्वा यथा देवाः पन्नगा गरुडं यथा ।
शत्रवः प्रपलायंते तस्य वक्त्रविलोकनात् ॥ 23 ॥

इति श्रीरुद्रयामले देवीश्वरसंवादे श्री भुवनेश्वर्यष्टोत्तरशतनाम स्तोत्रम् ।

sri bhuvaneshwari ashtottara satanama stotram in nepali

Copy
Give Feedback