Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

प्रातःस्मरण स्तोत्रं

Pratasmarana Stotram in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

pratasmarana stotram in nepali

प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं
सच्चित्सुखं परमहंसगतिं तुरीयम् ।
यत्स्वप्नजागरसुषुप्तमवैति नित्यं
तद्ब्रह्म निष्कलमहं न च भूतसंघः ॥ 1 ॥

प्रातर्भजामि मनसां वचसामगम्यं
वाचो विभांति निखिला यदनुग्रहेण ।
यन्नेतिनेति वचनैर्निगमा अवोचुः
तं देवदेवमजमच्युतमाहुरग्र्यम् ॥ 2 ॥

प्रातर्नमामि तमसः परमर्कवर्णं
पूर्णं सनातनपदं पुरुषोत्तमाख्यम् ।
यस्मिन्निदं जगदशेषमशेषमूर्तौ
रज्ज्वां भुजंगम इव प्रतिभासितं वै ॥ 3 ॥

श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम्
प्रातः काले पठेद्यस्तु स गच्छेत्परमं पदम् ॥

pratasmarana stotram in nepali

Copy
Give Feedback