Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री सुब्रह्मण्य हृदय स्तोत्रम्

Sri Subrahmanya Hrudaya Stotram in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri subrahmanya hrudaya stotram in marathi

अस्य श्रीसुब्रह्मण्यहृदयस्तोत्रमहामंत्रस्य, अगस्त्यो भगवान् ऋषिः, अनुष्टुप्छंदः, श्रीसुब्रह्मण्यो देवता, सौं बीजं, स्वाहा शक्तिः, श्रीं कीलकं, श्रीसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

करन्यासः –
सुब्रह्मण्याय अंगुष्ठाभ्यां नमः ।
षण्मुखाय तर्जनीभ्यां नमः ।
शक्तिधराय मध्यमाभ्यां नमः ।
षट्कोणसंस्थिताय अनामिकाभ्यां नमः ।
सर्वतोमुखाय कनिष्ठिकाभ्यां नमः ।
तारकांतकाय करतलकरपृष्ठाभ्यां नमः ॥
हृदयादि न्यासः –
सुब्रह्मण्याय हृदयाय नमः ।
षण्मुखाय शिरसे स्वाहा ।
शक्तिधराय शिखायै वषट् ।
षट्कोणसंस्थिताय कवचाय हुम् ।
सर्वतोमुखाय नेत्रत्रयाय वौषट् ।
तारकांतकाय अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बंधः ॥

ध्यानम् ।
षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्रांबरालंकृतं
वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।
पाशं कुक्कुटमंकुशं च वरदं दोर्भिर्दधानं सदा
ध्यायामीप्सित सिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहम् ॥

लमित्यादि पंचपूजां कुर्यात् ।

पीठिका ।
सत्यलोके सदानंदे मुनिभिः परिवेष्टितम् ।
पप्रच्छुर्मुनयः सर्वे ब्रह्माणं जगतां गुरुम् ॥ 1 ॥

भगवन् सर्वलोकेश सर्वज्ञ कमलासन ।
सदानंद ज्ञानमूर्ते सर्वभूतहिते रत ॥ 2 ॥

बहुधा प्रोक्तमेतस्य गुहस्य चरितं महत् ।
हृदयं श्रोतुमिच्छामः तस्यैव क्रौंचभेदिनः ॥ 3 ॥

ब्रह्मोवाच ।
शृण्वंतु मुनयः सर्वे गुह्याद्गुह्यतरं महत् ।
सुब्रह्मण्यस्य हृदयं सर्वभूतहितोदयम् ॥ 4 ॥

सर्वार्थसिद्धिदं पुण्यं सर्वकार्यैक साधनम् ।
धर्मार्थकामदं गुह्यं धनधान्यप्रवर्धनम् ॥ 5 ॥

रहस्यमेतद्देवानां अदेयं यस्य कस्यचित् ।
सर्वमित्रकरं गोप्यं तेजोबलसमन्वितम् ॥ 6 ॥

प्रवक्ष्यामि हितार्थं वः परितुष्टेन चेतसा ।
हृत्पद्मकर्णिकामध्ये ध्यायेत्सर्वमनोहरम् ॥ 7 ॥

अथ हृदयम् ।
सुवर्णमंडपं दिव्यं रत्नतोरणराजितम् ।
रत्नस्तंभसहस्रैश्च शोभितं परमाद्भुतम् ॥ 8 ॥

परमानंदनिलयं भास्वत्सूर्यसमप्रभम् ।
देवदानवगंधर्वगरुडैर्यक्षकिन्नरैः । ॥ 9 ॥

सेवार्थमागतैः सिद्धैः साध्यैरध्युषितं सदा ।
महायोगींद्रसंसेव्यं मंदारतरुमंडितम् ॥ 10 ॥

मणिविद्रुमवेदीभिर्महतीभिरुदंचितम् ।
तन्मध्येऽनंतरत्न श्रीच्छटामंडलशोभितम् ॥ 11 ॥

रत्नसिंहासनं दिव्यं रविकोटिसमप्रभम् ।
सर्वाश्चर्यमयं पुण्यं सर्वतः सुपरिष्कृतम् ॥ 12 ॥

तन्मध्येऽष्टदलं पद्मं उद्यदर्कप्रभोदयम् ।
निगमागमरोलंबलंबितं चिन्मयोदयम् ॥ 13 ॥

दिव्यं तेजोमयं दिव्यं देवताभिर्नमस्कृतम् ।
देदीप्यमानं रुचिभिर्विशालं सुमनोहरम् ॥ 14 ॥

तन्मध्ये सर्वलोकेशं ध्यायेत्सर्वांगसुंदरम् ।
अनंतादित्यसंकाशं आश्रिताभीष्टदायकम् ॥ 15 ॥

अचिंत्यज्ञानविज्ञानतेजोबलसमन्वितम् ।
सर्वायुधधरं दिव्यं सर्वाश्चर्यमयं गुहम् ॥ 16 ॥

महार्ह रत्नखचित षट्किरीटविराजितम् ।
शशांकार्धकलारम्य समुद्यन्मौलिभूषणम् ॥ 17 ॥

मदनोज्ज्वलकोदंडमंगलभ्रूविराजितम् ।
विस्तीर्णारुणपद्मश्री विलसद्द्वादशेक्षणम् ॥ 18 ॥

चारुश्रीवर्णसंपूर्णमुखशोभाविभासुरम् ।
मणिप्रभासमग्रश्रीस्फुरन्मकरकुंडलम् ॥ 19 ॥

लसद्दर्पणदर्पाढ्य गंडस्थलविराजितम् ।
दिव्यकांचनपुष्पश्रीनासापुटविराजितम् ॥ 20 ॥

मंदहासप्रभाजालमधुराधर शोभितम् ।
सर्वलक्षणलक्ष्मीभृत्कंबुकंधर सुंदरम् ॥ 21 ॥

महानर्घमहारत्नदिव्यहारविराजितम् ।
समग्रनागकेयूरसन्नद्धभुजमंडलम् ॥ 22 ॥

रत्नकंकणसंभास्वत्कराग्र श्रीमहोज्ज्वलम् ।
महामणिकवाटाभवक्षःस्थलविराजितम् ॥ 23 ॥

अतिगांभीर्यसंभाव्यनाभीनवसरोरुहम् ।
रत्नश्रीकलिताबद्धलसन्मध्यप्रदेशकम् ॥ 24 ॥

स्फुरत्कनकसंवीतपीतांबरसमावृतम् ।
शृंगाररससंपूर्ण रत्नस्तंभोपमोरुकम् ॥ 25 ॥

स्वर्णकाहलरोचिष्णु जंघायुगलमंडलम् ।
रत्नमंजीरसन्नद्ध रमणीय पदांबुजम् ॥ 26 ॥

भक्ताभीष्टप्रदं देवं ब्रह्मविष्ण्वादिसंस्तुतम् ।
कटाक्षैः करुणादक्षैस्तोषयंतं जगत्पतिम् ॥ 27 ॥

चिदानंदज्ञानमूर्तिं सर्वलोकप्रियंकरम् ।
शंकरस्यात्मजं देवं ध्यायेच्छरवणोद्भवम् ॥ 28 ॥

अनंतादित्यचंद्राग्नि तेजः संपूर्णविग्रहम् ।
सर्वलोकैकवरदं सर्वविद्यार्थतत्त्वकम् ॥ 29 ॥

सर्वेश्वरं सर्वविभुं सर्वभूतहिते रतम् ।
एवं ध्यात्वा तु हृदयं षण्मुखस्य महात्मनः ॥ 30 ॥

सर्वान्कामानवाप्नोति सम्यक् ज्ञानं च विंदति ।
शुचौ देशे समासीनः शुद्धात्मा चरिताह्निकः ॥ 31 ॥

प्राङ्मुखो यतचित्तश्च जपेद्धृदयमुत्तमम् ।
सकृदेव मनुं जप्त्वा संप्राप्नोत्यखिलं शुभम् ॥ 32 ॥

इदं सर्वाघहरणं मृत्युदारिद्र्यनाशनम् ।
सर्वसंपत्करं पुण्यं सर्वरोगनिवारणम् ॥ 33 ॥

सर्वकामकरं दिव्यं सर्वाभीष्टप्रदायकम् ।
प्रजाकरं राज्यकरं भाग्यदं बहुपुण्यदम् ॥ 34 ॥

गुह्याद्गुह्यतरं भूयो देवानामपि दुर्लभम् ।
इदं तु नातपस्काय नाभक्ताय कदाचन ॥ 35 ॥

न चाशुश्रूषवे देयं न मदांधाय कर्हिचित् ।
सच्छिष्याय कुलीनाय स्कंदभक्तिरताय च ॥ 36 ॥

सतामभिमतायेदं दातव्यं धर्मवर्धनम् ।
य इदं परमं पुण्यं नित्यं जपति मानवः ।
तस्य श्री भगवान् स्कंदः प्रसन्नो भवति ध्रुवम् ॥ 37 ॥

इति श्रीस्कांदपुराणे सुब्रह्मण्यहृदयस्तोत्रम् ॥

sri subrahmanya hrudaya stotram in marathi

Copy
Give Feedback