Sri Matangi Ashtottara Satanama Stotram in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
sri matangi ashtottara satanama stotram in marathi
श्रीभैरव्युवाच
भगवन् श्रोतुमिच्छामि मातंग्याः शतनामकम् ।
यद्गुह्यं सर्वतंत्रेषु केनापि न प्रकाशितम् ॥ 1 ॥
श्रीभैरव उवाच
शृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम् ।
नाख्येयं यत्र कुत्रापि पठनीयं परात्परम् ॥ 2 ॥
यस्यैकवारपठनात्सर्वे विघ्ना उपद्रवाः ।
नश्यंति तत्क्षणाद्देवि वह्निना तूलराशिवत् ॥ 3 ॥
प्रसन्ना जायते देवी मातंगी चास्य पाठतः ।
सहस्रनामपठने यत्फलं परिकीर्तितम् ।
तत्कोटिगुणितं देवीनामाष्टशतकं शुभम् ॥ 4 ॥
अस्य श्रीमातंग्यष्टोत्तरशतनामस्तोत्रस्य भगवान्मतंग ऋषिः अनुष्टुप्छंदः श्रीमातंगी देवता श्रीमातंगी प्रीतये जपे विनियोगः ।
महामत्तमातंगिनी सिद्धिरूपा
तथा योगिनी भद्रकाली रमा च ।
भवानी भवप्रीतिदा भूतियुक्ता
भवाराधिता भूतिसंपत्करी च ॥ 1 ॥
धनाधीशमाता धनागारदृष्टि-
-र्धनेशार्चिता धीरवापी वरांगी ।
प्रकृष्टा प्रभारूपिणी कामरूपा
प्रहृष्टा महाकीर्तिदा कर्णनाली ॥ 2 ॥
कराली भगा घोररूपा भगांगी
भगाह्वा भगप्रीतिदा भीमरूपा ।
भवानी महाकौशिकी कोशपूर्णा
किशोरी किशोरप्रिया नंदीहा ॥ 3 ॥
महाकारणाऽकारणा कर्मशीला
कपाली प्रसिद्धा महासिद्धखंडा ।
मकारप्रिया मानरूपा महेशी
मलोल्लासिनी लास्यलीलालयांगी ॥ 4 ॥
क्षमा क्षेमशीला क्षपाकारिणी चा-
-ऽक्षयप्रीतिदा भूतियुक्ता भवानी ।
भवाराधिता भूतिसत्यात्मिका च
प्रभोद्भासिता भानुभास्वत्करा च ॥ 5 ॥
धराधीशमाता धरागारदृष्टि-
-र्धरेशार्चिता धीवरा धीवरांगी ।
प्रकृष्टा प्रभारूपिणी प्राणरूपा
प्रकृष्टस्वरूपा स्वरूपप्रिया च ॥ 6 ॥
चलत्कुंडला कामिनी कांतयुक्ता
कपालाऽचला कालकोद्धारिणी च ।
कदंबप्रिया कोटरी कोटदेहा
क्रमा कीर्तिदा कर्णरूपा च काक्ष्मीः ॥ 7 ॥
क्षमांगी क्षयप्रेमरूपा क्षया च
क्षयाक्षा क्षयाह्वा क्षयप्रांतरा च ।
क्षवत्कामिनी क्षारिणी क्षीरपूर्णा
शिवांगी च शाकंभरी शाकदेहा ॥ 8 ॥
महाशाकयज्ञा फलप्राशका च
शकाह्वाऽशकाह्वा शकाख्या शका च ।
शकाक्षांतरोषा सुरोषा सुरेखा
महाशेषयज्ञोपवीतप्रिया च ॥ 9 ॥
जयंती जया जाग्रती योग्यरूपा
जयांगा जपध्यानसंतुष्टसंज्ञा ।
जयप्राणरूपा जयस्वर्णदेहा
जयज्वालिनी यामिनी याम्यरूपा ॥ 10 ॥
जगन्मातृरूपा जगद्रक्षणा च
स्वधावौषडंता विलंबाऽविलंबा ।
षडंगा महालंबरूपासिहस्ता-
पदाहारिणीहारिणी हारिणी च ॥ 11 ॥
महामंगला मंगलप्रेमकीर्ति-
-र्निशुंभच्छिदा शुंभदर्पापहा च ।
तथाऽऽनंदबीजादिमुक्तिस्वरूपा
तथा चंडमुंडापदा मुख्यचंडा ॥ 12 ॥
प्रचंडाऽप्रचंडा महाचंडवेगा
चलच्चामरा चामरा चंद्रकीर्तिः ।
सुचामीकरा चित्रभूषोज्ज्वलांगी
सुसंगीतगीता च पायादपायात् ॥ 13 ॥
इति ते कथितं देवि नाम्नामष्टोत्तरं शतम् ।
गोप्यं च सर्वतंत्रेषु गोपनीयं च सर्वदा ॥ 14 ॥
एतस्य सतताभ्यासात्साक्षाद्देवो महेश्वरः ।
त्रिसंध्यं च महाभक्त्या पठनीयं सुखोदयम् ॥ 15 ॥
न तस्य दुष्करं किंचिज्जायते स्पर्शतः क्षणात् ।
सुकृतं यत्तदेवाप्तं तस्मादावर्तयेत्सदा ॥ 16 ॥
सदैव सन्निधौ तस्य देवी वसति सादरम् ।
अयोगा ये त एवाग्रे सुयोगाश्च भवंति वै ॥ 17 ॥
त एव मित्रभूताश्च भवंति तत्प्रसादतः ।
विषाणि नोपसर्पंति व्याधयो न स्पृशंति तान् ॥ 18 ॥
लूताविस्फोटकाः सर्वे शमं यांति च तत्क्षणात् ।
जरापलितनिर्मुक्तः कल्पजीवी भवेन्नरः ॥ 19 ॥
अपि किं बहुनोक्तेन सान्निध्यं फलमाप्नुयात् ।
यावन्मया पुरा प्रोक्तं फलं साहस्रनामकम् ।
तत्सर्वं लभते मर्त्यो महामायाप्रसादतः ॥ 20 ॥
इति श्रीरुद्रयामले श्रीमातंगीशतनामस्तोत्रम् ।
sri matangi ashtottara satanama stotram in marathi
Leave a Comment