Sri Maha Kali Stotram in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
sri maha kali stotram in marathi
ध्यानम्
शवारूढां महाभीमां घोरदंष्ट्रां वरप्रदां
हास्ययुक्तां त्रिणेत्रांच कपाल कर्त्रिका कराम् ।
मुक्तकेशीं ललज्जिह्वां पिबंतीं रुधिरं मुहुः
चतुर्बाहुयुतां देवीं वराभयकरां स्मरेत् ॥
शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीं
चतुर्भुजां खड्गमुंडवराभयकरां शिवाम् ।
मुंडमालाधरां देवीं ललज्जिह्वां दिगंबरां
एवं संचिंतयेत्कालीं श्मशनालयवासिनीम् ॥
स्तोत्रम्
विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ।
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभाम् ॥ 1 ॥
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥ 2 ॥
अर्थमात्रास्थिता नित्या यानुच्चार्या विशेषतः ।
त्वमेव संध्या सावित्री त्वं देवी जननी परा ॥ 3 ॥
त्वयैतद्धार्यते विश्वं त्वयैतद्सृज्यते जगत् ।
त्वयैतत्पाल्यते देवि त्वमत्स्यंते च सर्वदा ॥ 4 ॥
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ।
तथा संहृतिरूपांते जगतोऽस्य जगन्मये ॥ 5 ॥
महाविद्या महामाया महामेधा महास्मृतिः ।
महामोहा च भवती महादेवी महेश्वरी ॥ 6 ॥
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ॥ 7 ॥
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शांतिः क्षांतिरेव च ॥ 8 ॥
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शंखिनी चापिनी बाणभुशुंडीपरिघायुधा ॥ 9 ॥
सौम्या सौम्यतराशेषा सौम्येभ्यस्त्वतिसुंदरी ।
परापराणां परमा त्वमेव परमेश्वरी ॥ 10 ॥
यच्च किंचित् क्वचिद्वस्तु सदसद्वाखिलात्मिके ।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा ॥ 11 ॥
यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥ 12 ॥
विष्णुः शरीरग्रहणमहमीशान एव च ।
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥ 13 ॥
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ।
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥ 14 ॥
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ।
बोधश्च क्रियतामस्य हंतुमेतौ महासुरौ ॥ 15 ॥
इति श्री महाकाली स्तोत्रम् ।
sri maha kali stotram in marathi
Leave a Comment