Mani Karnika Ashtakam in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
mani karnika ashtakam in marathi
त्वत्तीरे मणिकर्णिके हरिहरौ सायुज्यमुक्तिप्रदौ
वादंतौ कुरुतः परस्परमुभौ जंतोः प्रयाणोत्सवे ।
मद्रूपो मनुजोऽयमस्तु हरिणा प्रोक्तः शिवस्तत्क्षणा-
त्तन्मध्याद्भृगुलांछनो गरुडगः पीतांबरो निर्गतः ॥ 1 ॥
इंद्राद्यास्त्रिदशाः पतंति नियतं भोगक्षये ये पुन-
र्जायंते मनुजास्ततोपि पशवः कीटाः पतंगादयः ।
ये मातर्मणिकर्णिके तव जले मज्जंति निष्कल्मषाः
सायुज्येऽपि किरीटकौस्तुभधरा नारायणाः स्युर्नराः ॥ 2 ॥
काशी धन्यतमा विमुक्तनगरी सालंकृता गंगया
तत्रेयं मणिकर्णिका सुखकरी मुक्तिर्हि तत्किंकरी ।
स्वर्लोकस्तुलितः सहैव विबुधैः काश्या समं ब्रह्मणा
काशी क्षोणितले स्थिता गुरुतरा स्वर्गो लघुत्वं गतः ॥ 3 ॥
गंगातीरमनुत्तमं हि सकलं तत्रापि काश्युत्तमा
तस्यां सा मणिकर्णिकोत्तमतमा येत्रेश्वरो मुक्तिदः ।
देवानामपि दुर्लभं स्थलमिदं पापौघनाशक्षमं
पूर्वोपार्जितपुण्यपुंजगमकं पुण्यैर्जनैः प्राप्यते ॥ 4 ॥
दुःखांभोधिगतो हि जंतुनिवहस्तेषां कथं निष्कृतिः
ज्ञात्वा तद्धि विरिंचिना विरचिता वाराणसी शर्मदा ।
लोकाःस्वर्गसुखास्ततोऽपि लघवो भोगांतपातप्रदाः
काशी मुक्तिपुरी सदा शिवकरी धर्मार्थमोक्षप्रदा ॥ 5 ॥
एको वेणुधरो धराधरधरः श्रीवत्सभूषाधरः
योऽप्येकः किल शंकरो विषधरो गंगाधरो माधवः ।
ये मातर्मणिकर्णिके तव जले मज्जंति ते मानवाः
रुद्रा वा हरयो भवंति बहवस्तेषां बहुत्वं कथम् ॥ 6 ॥
त्वत्तीरे मरणं तु मंगलकरं देवैरपि श्लाघ्यते
शक्रस्तं मनुजं सहस्रनयनैर्द्रष्टुं सदा तत्परः ।
आयांतं सविता सहस्रकिरणैः प्रत्युद्गतोऽभूत्सदा
पुण्योऽसौ वृषगोऽथवा गरुडगः किं मंदिरं यास्यति ॥ 7 ॥
मध्याह्ने मणिकर्णिकास्नपनजं पुण्यं न वक्तुं क्षमः
स्वीयैरब्धशतैश्चतुर्मुखधरो वेदार्थदीक्षागुरुः ।
योगाभ्यासबलेन चंद्रशिखरस्तत्पुण्यपारंगत-
स्त्वत्तीरे प्रकरोति सुप्तपुरुषं नारायणं वा शिवम् ॥ 8 ॥
कृच्छ्रै कोटिशतैः स्वपापनिधनं यच्चाश्वमेधैः फलं
तत्सर्वे मणिकर्णिकास्नपनजे पुण्ये प्रविष्टं भवेत् ।
स्नात्वा स्तोत्रमिदं नरः पठति चेत्संसारपाथोनिधिं
तीर्त्वा पल्वलवत्प्रयाति सदनं तेजोमयं ब्रह्मणः ॥ 9 ॥
mani karnika ashtakam in marathi
Leave a Comment