Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

देवी वैभवाश्चर्य अष्टोत्तर शत नामावलि

Devi Vaibhava Ashcharya Ashtottara Sata Namaavali in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

devi vaibhava ashcharya ashtottara sata namaavali in marathi

ॐ परमानंदलहर्यै नमः ।
ॐ परचैतन्यदीपिकायै नमः ।
ॐ स्वयंप्रकाशकिरणायै नमः ।
ॐ नित्यवैभवशालिन्यै नमः ।
ॐ विशुद्धकेवलाखंडसत्यकालात्मरूपिण्यै नमः ।
ॐ आदिमध्यांतरहितायै नमः ।
ॐ महामायाविलासिन्यै नमः ।
ॐ गुणत्रयपरिच्छेत्र्यै नमः ।
ॐ सर्वतत्त्वप्रकाशिन्यै नमः ।
ॐ स्त्रीपुंसभावरसिकायै नमः । 10 ।

ॐ जगत्सर्गादिलंपटायै नमः ।
ॐ अशेषनामरूपादिभेदच्छेदरविप्रभायै नमः ।
ॐ अनादिवासनारूपायै नमः ।
ॐ वासनोद्यत्प्रपंचिकायै नमः ।
ॐ प्रपंचोपशमप्रौढायै नमः ।
ॐ चराचरजगन्मय्यै नमः ।
ॐ समस्तजगदाधारायै नमः ।
ॐ सर्वसंजीवनोत्सुकायै नमः ।
ॐ भक्तचेतोमयानंतस्वार्थवैभवविभ्रमायै नमः ।
ॐ सर्वाकर्षणवश्यादिसर्वकर्मधुरंधरायै नमः । 20 ।

ॐ विज्ञानपरमानंदविद्यायै नमः ।
ॐ संतानसिद्धिदायै नमः ।
ॐ आयुरारोग्यसौभाग्यबलश्रीकीर्तिभाग्यदायै नमः ।
ॐ धनधान्यमणीवस्त्रभूषालेपनमाल्यदायै नमः ।
ॐ गृहग्राममहाराज्यसाम्राज्यसुखदायिन्यै नमः ।
ॐ सप्तांगशक्तिसंपूर्णसार्वभौमफलप्रदायै नमः ।
ॐ ब्रह्मविष्णुशिवेंद्रादिपदविश्राणनक्षमायै नमः ।
ॐ भुक्तिमुक्तिमहाभक्तिविरक्त्यद्वैतदायिन्यै नमः ।
ॐ निग्रहानुग्रहाध्यक्षायै नमः ।
ॐ ज्ञाननिर्द्वैतदायिन्यै नमः ।
ॐ परकायप्रवेशादियोगसिद्धिप्रदायिन्यै नमः । 30 ।

ॐ शिष्टसंजीवनप्रौढायै नमः ।
ॐ दुष्टसंहारसिद्धिदायै नमः ।
ॐ लीलाविनिर्मितानेककोटिब्रह्मांडमंडलायै नमः ।
ॐ एकस्यै नमः ।
ॐ अनेकात्मिकायै नमः ।
ॐ नानारूपिण्यै नमः ।
ॐ अर्धांगनेश्वर्यै नमः ।
ॐ शिवशक्तिमय्यै नमः ।
ॐ नित्यशृंगारैकरसप्रियायै नमः । 40 ।

ॐ तुष्टायै नमः ।
ॐ पुष्टायै नमः ।
ॐ अपरिच्छिन्नायै नमः ।
ॐ नित्ययौवनमोहिन्यै नमः ।
ॐ समस्तदेवतारूपायै नमः ।
ॐ सर्वदेवाधिदेवतायै नमः ।
ॐ देवर्षिपितृसिद्धादियोगिनीभैरवात्मिकायै नमः ।
ॐ निधिसिद्धिमणीमुद्रायै नमः ।
ॐ शस्त्रास्त्रायुधभासुरायै नमः ।
ॐ छत्रचामरवादित्रपताकाव्यजनांचितायै नमः । 50 ।

ॐ हस्त्यश्वरथपादातामात्यसेनासुसेवितायै नमः ।
ॐ पुरोहितकुलाचार्यगुरुशिष्यादिसेवितायै नमः ।
ॐ सुधासमुद्रमध्योद्यत्सुरद्रुमनिवासिन्यै नमः ।
ॐ मणिद्वीपांतरप्रोद्यत्कदंबवनवासिन्यै नमः ।
ॐ चिंतामणिगृहांतःस्थायै नमः ।
ॐ मणिमंटपमध्यगायै नमः ।
ॐ रत्नसिंहासनप्रोद्यच्छिवमंचाधिशायिन्यै नमः ।
ॐ सदाशिवमहालिंगमूलसंघट्टयोनिकायै नमः ।
ॐ अन्योन्यालिंगसंघर्षकंडूसंक्षुब्धमानसायै नमः ।
ॐ कलोद्यद्बिंदुकालिन्यातुर्यनादपरंपरायै नमः । 60 ।

ॐ नादांतानंदसंदोहस्वयंव्यक्तवचोऽमृतायै नमः ।
ॐ कामराजमहातंत्ररहस्याचारदक्षिणायै नमः ।
ॐ मकारपंचकोद्भूतप्रौढांतोल्लाससुंदर्यै नमः ।
ॐ श्रीचक्रराजनिलयायै नमः ।
ॐ श्रीविद्यामंत्रविग्रहायै नमः ।
ॐ अखंडसच्चिदानंदशिवशक्तैक्यरूपिण्यै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ त्रिपुरेशान्यै नमः ।
ॐ महात्रिपुरसुंदर्यै नमः ।
ॐ त्रिपुरावासरसिकायै नमः । 70 ।

ॐ त्रिपुराश्रीस्वरूपिण्यै नमः ।
ॐ महापद्मवनांतस्थायै नमः ।
ॐ श्रीमत्त्रिपुरमालिन्यै नमः ।
ॐ महात्रिपुरसिद्धांबायै नमः ।
ॐ श्रीमहात्रिपुरांबिकायै नमः ।
ॐ नवचक्रक्रमादेव्यै नमः ।
ॐ महात्रिपुरभैरव्यै नमः ।
ॐ श्रीमात्रे नमः ।
ॐ ललितायै नमः ।
ॐ बालायै नमः । 80 ।

ॐ राजराजेश्वर्यै नमः ।
ॐ शिवायै नमः ।
ॐ उत्पत्तिस्थितिसंहारक्रमचक्रनिवासिन्यै नमः ।
ॐ अर्धमेर्वात्मचक्रस्थायै नमः ।
ॐ सर्वलोकमहेश्वर्यै नमः ।
ॐ वल्मीकपुरमध्यस्थायै नमः ।
ॐ जंबूवननिवासिन्यै नमः ।
ॐ अरुणाचलशृंगस्थायै नमः ।
ॐ व्याघ्रालयनिवासिन्यै नमः ।
ॐ श्रीकालहस्तिनिलयायै नमः । 90 ।

ॐ काशीपुरनिवासिन्यै नमः ।
ॐ श्रीमत्कैलासनिलयायै नमः ।
ॐ द्वादशांतमहेश्वर्यै नमः ।
ॐ श्रीषोडशांतमध्यस्थायै नमः ।
ॐ सर्ववेदांतलक्षितायै नमः ।
ॐ श्रुतिस्मृतिपुराणेतिहासागमकलेश्वर्यै नमः ।
ॐ भूतभौतिकतन्मात्रदेवताप्राणहृन्मय्यै नमः ।
ॐ जीवेश्वरब्रह्मरूपायै नमः ।
ॐ श्रीगुणाढ्यायै नमः ।
ॐ गुणात्मिकायै नमः । 100 ।

ॐ अवस्थात्रयनिर्मुक्तायै नमः ।
ॐ वाग्रमोमामहीमय्यै नमः ।
ॐ गायत्रीभुवनेशानीदुर्गाकाल्यादिरूपिण्यै नमः ।
ॐ मत्स्यकूर्मवराहादिनानारूपविलासिन्यै नमः ।
ॐ महायोगीश्वराराध्यायै नमः ।
ॐ महावीरवरप्रदायै नमः ।
ॐ सिद्धेश्वरकुलाराध्यायै नमः ।
ॐ श्रीमच्चरणवैभवायै नमः । 108

इति देवीवैभवाश्चर्याष्टोत्तरशतनामावलिः ।

devi vaibhava ashcharya ashtottara sata namaavali in marathi

Copy
Give Feedback