Annamayya Keerthanas Radha Madhava Rati Charitamiti in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
annamayya keerthanas radha madhava rati charitamiti in marathi
राधामाधवरतिचरितमिति
बोधावहं श्रुतिभूषणं ॥
गहने द्वावपि गत्वा गत्वा
रहसि रतिं प्रेरयति सति ।
विहरतस्तदा विलसंतौ
विहतगृहाशौ विवशौ तौ ॥
लज्जाशभल विलासलीलया
कज्जलनयन विकारेण ।
हृज्जाव्यवनहित हृदया रति
स्सज्जा संभ्रमचपला जाता ॥
पुरतो यांतं पुरुषं वकुलैः
कुरंटकैर्वा कुटजैर्वा ।
परमं प्रहरति पश्चाल्लग्ना-
गिरं विनासि विकिरति मुदं ॥
हरि सुरभूरुह मारोहतीव
चरणेन कटिं संवेष्ट्य ।
परिरंचण संपादितपुलकै
स्सुरुचिर्जाता सुमलतिकेव ॥
विधुमुखदर्शन विकलितलज्जा-
त्वधरबिंबफलमास्वाद्य ।
मधुरोपायनमार्गेण कुचौ
निधिवद त्वा नित्यसुखमिता ॥
सुरुचिरकेतक सुमदल नखरै-
र्वरचिबुकं सा परिवृत्य ।
तरुणिमसिंधौ तदीयदृग्जल-
चरयुगलं संसक्तं चकार ॥
वचन विलासैर्वशीकृत तं
निचुलकुंज मानितदेशे ।
प्रचुरसैकते पल्लवशयने-
रचितरतिकला रागेणास ॥
अभिनवकल्याणांचितरूपा-
वभिनिवेश संयतचित्तौ ।
बभूवतु स्तत्परौ वेंकट
विभुना सा तद्विधिना सतया ॥
सच लज्जावीक्षणो भवति तं
कचभरां गंधं घ्रापयति ।
नचलतिचेन्मानवती तथापि
कुचसंगादनुकूलयति ॥
अवनतशिरसाप्यति सुभगं
विविधालापैर्विवशयति ।
प्रविमल कररुहरचन विलासै
र्भुवनपति तं भूषयति ॥
लतागृहमेलनं नवसै
कतवैभव सौख्यं दृष्ट्वा ।
ततस्ततश्चरसौ केली-
व्रतचर्यां तां वांछंतौ ।
वनकुसुम विशदवरवासनया-
घनसाररजोगंधैश्च ।
जनयति पवने सपदि विकारं-
वनिता पुरुषौ जनिताशौ ॥
एवं विचरन् हेला विमुख-
श्रीवेंकटगिरि देवोयं ।
पावनराधापरिरंभसुख-
श्री वैभवसुस्थिरो भवति ॥
annamayya keerthanas radha madhava rati charitamiti in marathi
Leave a Comment