Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

विघ्नेश्वर अष्टोत्तर शत नाम स्तोत्रम्

Vighnesvara Ashtottara Sata Nama Stotram in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

vighnesvara ashtottara sata nama stotram in konkani

विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ।
स्कंदाग्रजोऽव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ 1 ॥

अग्निगर्वच्छिदिंद्रश्रीप्रदो वाणीप्रदोऽव्ययः
सर्वसिद्धिप्रद-श्शर्वतनयः शर्वरीप्रियः ॥ 2 ॥

सर्वात्मकः सृष्टिकर्ता देवोऽनेकार्चितश्शिवः ।
शुद्धो बुद्धिप्रिय-श्शांतो ब्रह्मचारी गजाननः ॥ 3 ॥

द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः ।
एकदंत-श्चतुर्बाहु-श्चतुर-श्शक्तिसंयुतः ॥ 4 ॥

लंबोदर-श्शूर्पकर्णो हर-र्ब्रह्मविदुत्तमः ।
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ 5 ॥

पाशांकुशधर-श्चंडो गुणातीतो निरंजनः ।
अकल्मष-स्स्वयंसिद्ध-स्सिद्धार्चितपदांबुजः ॥ 6 ॥

बीजपूरफलासक्तो वरद-श्शाश्वतः कृती ।
विद्वत् प्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ 7 ॥

श्रीदोऽज उत्पलकरः श्रीपतिः स्तुतिहर्षितः ।
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥ 8 ॥

चंद्रचूडामणिः कांतः पापहारी समाहितः ।
अश्रित-श्रीकर-स्सौम्यो भक्तवांछितदायकः ॥ 9 ॥

शांतः कैवल्यसुखद-स्सच्चिदानंदविग्रहः ।
ज्ञानी दयायुतो दांतो ब्रह्मद्वेषविवर्जितः ॥ 10 ॥

प्रमत्तदैत्यभयदः श्रीकंठो विबुधेश्वरः ।
रमार्चितो निधि-र्नागराजयज्ञोपवीतवान् ॥ 11 ॥

स्थूलकंठः स्वयंकर्ता सामघोषप्रियः परः ।
स्थूलतुंडोऽग्रणी-र्धीरो वागीशः-सिद्धिदायकः ॥ 12 ॥

दूर्वाबिल्वप्रियोऽव्यक्तमूर्ति-रद्भुतमूर्तिमान् ।
शैलेंद्रतनुजोत्संगखेलनोत्सुकमानसः ॥ 13 ॥

स्वलावण्यसुधासारजितमन्मथविग्रहः ।
समस्तजगदाधारो मायी मूषकवाहनः ॥ 14 ॥

हृष्ट-स्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ।
अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुम् ॥ 15 ॥

तुष्टाव शंकरः पुत्रं त्रिपुरं हंतुमुद्यतः ।
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ॥ 16 ॥

दूर्वादलै-र्बिल्वपत्रैः पुष्पैर्वा चंदनाक्षतैः ।
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ॥

इति विघ्नेश्वराष्टोत्तर शतनामस्तोत्रं संपूर्णम्

vighnesvara ashtottara sata nama stotram in konkani

Copy
Give Feedback