Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्रि दत्त स्तवम्

Sri Datta Stavam in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri datta stavam in konkani

श्री गणेशाय नमः श्री सरस्वत्यै नमः
श्रीपादवल्लभ नरसिंहसरस्वति
श्रीगुरु दत्तात्रेयाय नमः

दत्तात्रेयं महात्मानं वरदं भक्तवत्सलम् ।
प्रपन्नार्तिहरं वंदे स्मर्तृगामि सनोवतु ॥ 1 ॥

दीनबंधुं कृपासिंधुं सर्वकारणकारणम् ।
सर्वरक्षाकरं वंदे स्मर्तृगामि सनोवतु ॥ 2 ॥

शरणागतदीनार्त परित्राणपरायणम् ।
नारायणं विभुं वंदे स्मर्तृगामि सनोवतु ॥ 3 ॥

सर्वानर्थहरं देवं सर्वमंगल मंगलम् ।
सर्वक्लेशहरं वंदे स्मर्तृगामि सनोवतु ॥ 4 ॥

ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम् ।
भक्ताऽभीष्टप्रदं वंदे स्मर्तृगामि सनोवतु ॥ 5 ॥

शोषणं पापपंकस्य दीपनं ज्ञानतेजसः ।
तापप्रशमनं वंदे स्मर्तृगामि सनोवतु ॥ 6 ॥

सर्वरोगप्रशमनं सर्वपीडानिवारणम् ।
विपदुद्धरणं वंदे स्मर्तृगामि सनोवतु ॥ 7 ॥

जन्मसंसारबंधघ्नं स्वरूपानंददायकम् ।
निश्श्रेयसपदं वंदे स्मर्तृगामि सनोवतु ॥ 8 ॥

जय लाभ यशः काम दातुर्दत्तस्य यः स्तवम् ।
भोगमोक्षप्रदस्येमं प्रपठेत् सुकृती भवेत् ॥9 ॥

इति श्री दत्तस्तवम् ।

sri datta stavam in konkani

Copy
Give Feedback