Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

शिव मानस पूज

Shiva Manasa Puja in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

shiva manasa puja in konkani

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्यांबरं
नानारत्न विभूषितं मृगमदा मोदांकितं चंदनम् ।
जाती चंपक बिल्वपत्र रचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ 1 ॥

सौवर्णे नवरत्नखंड रचिते पात्रे घृतं पायसं
भक्ष्यं पंचविधं पयोदधियुतं रंभाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूर खंडोज्ज्चलं
तांबूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ 2 ॥

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणा भेरि मृदंग काहलकला गीतं च नृत्यं तथा ।
साष्टांगं प्रणतिः स्तुति-र्बहुविधा-ह्येतत्-समस्तं मया
संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ 3 ॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोग-रचना निद्रा समाधिस्थितिः ।
संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शंभो तवाराधनम् ॥ 4 ॥

कर चरण कृतं वाक्कायजं कर्मजं वा
श्रवण नयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत्-क्षमस्व
जय जय करुणाब्धे श्री महादेव शंभो ॥ 5 ॥

shiva manasa puja in konkani

Copy
Give Feedback