Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

विदुर नीति – उद्योग पर्वम्, अध्यायः 39

Vidura Neethi Udyoga Parvam Chapter 39 in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

vidura neethi udyoga parvam chapter 39 in hindi

॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
विदुरवाक्ये एकोनचत्वारिंशोऽध्यायः ॥

धृतराष्ट्र उवाच ।

अनीश्वरोऽयं पुरुषो भवाभवे
सूत्रप्रोता दारुमयीव योषा ।
धात्रा हि दिष्टस्य वशे किलायं
तस्माद्वद त्वं श्रवणे घृतोऽहम् ॥ 1॥

विदुर उवाच ।

अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।
लभते बुद्ध्यवज्ञानमवमानं च भारत ॥ 2॥

प्रियो भवति दानेन प्रियवादेन चापरः ।
मंत्रं मूलबलेनान्यो यः प्रियः प्रिय एव सः ॥ 3॥

द्वेष्यो न साधुर्भवति न मेधावी न पंडितः ।
प्रिये शुभानि कर्माणि द्वेष्ये पापानि भारत ॥ 4॥

न स क्षयो महाराज यः क्षयो वृद्धिमावहेत् ।
क्षयः स त्विह मंतव्यो यं लब्ध्वा बहु नाशयेत् ॥ 5॥

समृद्धा गुणतः के चिद्भवंति धनतोऽपरे ।
धनवृद्धान्गुणैर्हीनांधृतराष्ट्र विवर्जयेत् ॥ 6॥

धृतराष्ट्र उवाच ।

सर्वं त्वमायती युक्तं भाषसे प्राज्ञसम्मतम् ।
न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः ॥ 7॥

विदुर उवाच ।

स्वभावगुणसंपन्नो न जातु विनयान्वितः ।
सुसूक्ष्ममपि भूतानामुपमर्दं प्रयोक्ष्यते ॥ 8॥

परापवाद निरताः परदुःखोदयेषु च ।
परस्परविरोधे च यतंते सततोथिताः ॥ 9॥

स दोषं दर्शनं येषां संवासे सुमहद्भयम् ।
अर्थादाने महांदोषः प्रदाने च महद्भयम् ॥ 10॥

ये पापा इति विख्याताः संवासे परिगर्हिताः ।
युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत् ॥ 11॥

निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति ।
या चैव फलनिर्वृत्तिः सौहृदे चैव यत्सुखम् ॥ 12॥

यतते चापवादाय यत्नमारभते क्षये ।
अल्पेऽप्यपकृते मोहान्न शांतिमुपगच्छति ॥ 13॥

तादृशैः संगतं नीचैर्नृशंसैरकृतात्मभिः ।
निशाम्य निपुणं बुद्ध्या विद्वांदूराद्विवर्जयेत् ॥ 14॥

यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम् ।
सपुत्रपशुभिर्वृद्धिं यशश्चाव्ययमश्नुते ॥ 15॥

ज्ञातयो वर्धनीयास्तैर्य इच्छंत्यात्मनः शुभम् ।
कुलवृद्धिं च राजेंद्र तस्मात्साधु समाचर ॥ 16॥

श्रेयसा योक्ष्यसे राजन्कुर्वाणो ज्ञातिसत्क्रियाम् ।
विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ ॥ 17॥

किं पुनर्गुणवंतस्ते त्वत्प्रसादाभिकांक्षिणः ।
प्रसादं कुरु दीनानां पांडवानां विशां पते ॥ 18॥

दीयंतां ग्रामकाः के चित्तेषां वृत्त्यर्थमीश्वर ।
एवं लोके यशःप्राप्तो भविष्यत्सि नराधिप ॥ 19॥

वृद्धेन हि त्वया कार्यं पुत्राणां तात रक्षणम् ।
मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम् ॥ 20॥

ज्ञातिभिर्विग्रहस्तात न कर्तव्यो भवार्थिना ।
सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ ॥ 21॥

संभोजनं संकथनं संप्रीतिश् च परस्परम् ।
ज्ञातिभिः सह कार्याणि न विरोधः कथं चन ॥ 22॥

ज्ञातयस्तारयंतीह ज्ञातयो मज्जयंति च ।
सुवृत्तास्तारयंतीह दुर्वृत्ता मज्जयंति च ॥ 23॥

सुवृत्तो भव राजेंद्र पांडवान्प्रति मानद ।
अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यसि ॥ 24॥

श्रीमंतं ज्ञातिमासाद्य यो ज्ञातिरवसीदति ।
दिग्धहस्तं मृग इव स एनस्तस्य विंदति ॥ 25॥

पश्चादपि नरश्रेष्ठ तव तापो भविष्यति ।
तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिंतय ॥ 26॥

येन खट्वां समारूढः परितप्येत कर्मणा ।
आदावेव न तत्कुर्यादध्रुवे जीविते सति ॥ 27॥

न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् ।
शेषसंप्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति ॥ 28॥

दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् ।
त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर ॥ 29॥

तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः ।
भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् ॥ 30॥

सुव्याहृतानि धीराणां फलतः प्रविचिंत्य यः ।
अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ॥ 31॥

अवृत्तिं विनयो हंति हंत्यनर्थं पराक्रमः ।
हंति नित्यं क्षमा क्रोधमाचारो हंत्यलक्षणम् ॥ 32॥

परिच्छदेन क्षत्रेण वेश्मना परिचर्यया ।
परीक्षेत कुलं राजन्भोजनाच्छादनेन च ॥ 33॥

ययोश्चित्तेन वा चित्तं नैभृतं नैभृतेन वा ।
समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यते ॥ 34॥

दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव ।
विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति ॥ 35॥

अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च ।
तथैवापेत धर्मेषु न मैत्रीमाचरेद्बुधः ॥ 36॥

कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् ।
जितेंद्रियं स्थितं स्थित्यां मित्रमत्यागि चेष्यते ॥ 37॥

इंद्रियाणामनुत्सर्गो मृत्युना न विशिष्यते ।
अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतान्यपि ॥ 38॥

मार्दवं सर्वभूतानामनसूया क्षमा धृतिः ।
आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना ॥ 39॥

अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते ।
मतिमास्थाय सुदृढां तदकापुरुष व्रतम् ॥ 40॥

आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः ।
अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते ॥ 41॥

कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते ।
तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् ॥ 42॥

मंगलालंभनं योगः श्रुतमुत्थानमार्जवम् ।
भूतिमेतानि कुर्वंति सतां चाभीक्ष्ण दर्शनम् ॥ 43॥

अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च ।
महान्भवत्यनिर्विण्णः सुखं चात्यंतमश्नुते ॥ 44॥

नातः श्रीमत्तरं किं चिदन्यत्पथ्यतमं तथा ।
प्रभ विष्णोर्यथा तात क्षमा सर्वत्र सर्वदा ॥ 45॥

क्षमेदशक्तः सर्वस्य शक्तिमांधर्मकारणात् ।
अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता ॥ 46॥

यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते ।
कामं तदुपसेवेत न मूढ व्रतमाचरेत् ॥ 47॥

दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च ।
न श्रीर्वसत्यदांतेषु ये चोत्साह विवर्जिताः ॥ 48॥

आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम् ।
अशक्तिमंतं मन्यंतो धर्षयंति कुबुद्धयः ॥ 49॥

अत्यार्यमतिदातारमतिशूरमतिव्रतम् ।
प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥ 50॥

अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् ।
रतिपुत्र फला दारा दत्तभुक्त फलं धनम् ॥ 51॥

अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्व देहिकम् ।
न स तस्य फलं प्रेत्य भुंक्तेऽर्थस्य दुरागमात् ॥ 52॥

कानार वनदुर्गेषु कृच्छ्रास्वापत्सु संभ्रमे ।
उद्यतेषु च शस्त्रेषु नास्ति शेषवतां भयम् ॥ 53॥

उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः ।
समीक्ष्य च समारंभो विद्धि मूलं भवस्य तत् ॥ 54॥

तपोबलं तापसानां ब्रह्म ब्रह्मविदां बलम् ।
हिंसा बलमसाधूनां क्षमागुणवतां बलम् ॥ 55॥

अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।
हविर्ब्राह्मण काम्या च गुरोर्वचनमौषधम् ॥ 56॥

न तत्परस्य संदध्यात्प्रतिकूलं यदात्मनः ।
संग्रहेणैष धर्मः स्यात्कामादन्यः प्रवर्तते ॥ 57॥

अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् ।
जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् ॥ 58॥

स्त्री धूर्तकेऽलसे भीरौ चंडे पुरुषमानिनि ।
चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके ॥ 59॥

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि संप्रवर्धंते कीर्तिरायुर्यशोबलम् ॥ 60॥

अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च ।
अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः ॥ 61॥

अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजम् ।
निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् ॥ 62॥

अध्वा जरा देहवतां पर्वतानां जलं जरा ।
असंभोगो जरा स्त्रीणां वाक्षल्यं मनसो जरा ॥ 63॥

अनाम्नाय मला वेदा ब्राह्मणस्याव्रतं मलम् ।
कौतूहलमला साध्वी विप्रवास मलाः स्त्रियः ॥ 64॥

सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु ।
ज्ञेयं त्रपु मलं सीसं सीसस्यापि मलं मलम् ॥ 65॥

न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् ।
नेंधनेन जयेदग्निं न पानेन सुरां जयेत् ॥ 66॥

यस्य दानजितं मित्रममित्रा युधि निर्जिताः ।
अन्नपानजिता दाराः सफलं तस्य जीवितम् ॥ 67॥

सहस्रिणोऽपि जीवंति जीवंति शतिनस्तथा ।
धृतराष्ट्रं विमुंचेच्छां न कथं चिन्न जीव्यते ॥ 68॥

यत्पृथिव्यां व्रीहि यवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥ 69॥

राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर ।
समता यदि ते राजन्स्वेषु पांडुसुतेषु च ॥ 70॥

॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
विदुरवाक्ये एकोनचत्वारिंशोऽध्यायः ॥ 39॥

vidura neethi udyoga parvam chapter 39 in hindi

Copy
Give Feedback