Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

सुब्रह्मण्यष्टोत्तरशत नामस्तोत्रम्

Subrahmanya Ashtottara Sata Nama Stotram in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

subrahmanya ashtottara sata nama stotram in hindi

शक्तिहस्तं विरूपाक्षं शिखिवाहं षडाननम् ।
दारुणं रिपुरोगघ्नं भावये कुक्कुटध्वजम् ॥

इति ध्यानम्

स्कंदो गुहः षण्मुखश्च फालनेत्रसुतः प्रभुः ।
पिंगलः कृत्तिकासूनुः शिखिवाहो द्विषड्भुजः ॥ 1 ॥

द्विषण्णेत्र-श्शक्तिधरः पिशिताश प्रभंजनः ।
तारकासुरसंहारी रक्षोबलविमर्दनः ॥ 2 ॥

मत्तः प्रमत्त उन्मत्तः सुरसैन्यसुरक्षकः ।
देवसेनापतिः प्राज्ञः कृपालु र्भक्तवत्सलः ॥ 3 ॥

उमासुत-श्शक्तिधरः कुमारः क्रौंचधारणः ।
सेनानी-रग्निजन्मा च विशाखः शंकरात्मजः ॥ 4 ॥

शिवस्वामी गणस्वामी सर्वस्वामी सनातनः ।
अनंतमूर्ति रक्षोभ्यः पार्वतीप्रियनंदनः ॥ 5 ॥

गंगासुत-श्शरोद्भूत आहूतः पावकात्मजः ।
जृंभः प्रजृंभ उज्जृंभः कमलासनसंस्तुतः ॥ 6 ॥

एकवर्णो द्विवर्णश्च त्रिवर्णः सुमनोहरः ।
चतुर्वर्णः पंचवर्णः प्रजापति-रहस्पतिः ॥ 7 ॥

अग्निगर्भ-श्शमीगर्भो विश्वरेता-स्सुरारिहा ।
हरिद्वर्ण-श्शुभकरो पटुश्च वटुवेषभृत् ॥ 8 ॥

पूषा गभस्ति-र्गहन श्चंद्रवर्णः कलाधरः ।
मायाधरो महामायी कैवल्य-श्शंकरात्मजः ॥ 9 ॥

विश्वयोनि-रमेयात्मा तेजोनिधि-रनामयः ।
परमेष्ठी परंब्रह्म वेदगर्भो विराट्सुतः ॥ 10 ॥

पुलिंदकन्याभर्ता च महासारस्वतावृतः ।
अश्रितोखिलदाता च चोरघ्नो रोगनाशनः ॥ 11 ॥

अनंतमूर्ति-रानंद-श्शिखंडीकृतकेतनः ।
डंभः परमडंभश्च महाडंभो वृषाकपिः ॥ 12 ॥

कारणोपात्तदेहश्च कारणातीतविग्रहः ।
अनीश्वरोऽमृतः प्राणः प्राणायामपरायणः ॥ 13 ॥

विरुद्धहंता वीरघ्नो रक्तश्यामगलोऽपि च ।
सुब्रह्मण्यो गुहः प्रीतो ब्रह्मण्यो ब्राह्मणप्रियः ॥ 14 ॥

वंशवृद्धिकरो वेदो वेद्योऽक्षयफलप्रदः ॥ 15 ॥

इति श्री सुब्रह्मण्याष्टोत्तर शतनामस्तोत्रं संपूर्णम् ।

subrahmanya ashtottara sata nama stotram in hindi

Copy
Give Feedback