Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री छिन्नमस्ता अष्टोत्तर शत नामा स्तोत्रं

Sri Chinnamasta Ashtottara Satanama Stotram in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri chinnamasta ashtottara satanama stotram in hindi

श्री पार्वत्युवाच
नाम्नां सहस्रं परमं छिन्नमस्ताप्रियं शुभम् ।
कथितं भवता शंभोस्सद्यश्शत्रुनिकृंतनम् ॥ 1 ॥

पुनः पृच्छाम्यहं देव कृपां कुरु ममोपरि ।
सहस्रनामपाठे च अशक्तो यः पुमान् भवेत् ॥ 2 ॥

तेन किं पठ्यते नाथ तन्मे ब्रूहि कृपामय ।

श्री सदाशिव उवाच
अष्टोत्तरशतं नाम्नां पठ्यते तेन सर्वदा ॥ 3 ॥

सहस्रनामपाठस्य फलं प्राप्नोति निश्चितम् ।

ॐ अस्य श्रीछिन्नमस्तादेव्यष्टोत्तर शतनाम स्तोत्रमहामंत्रस्य सदाशिव
ऋषिः अनुष्टुप् छंदः श्रीछिन्नमस्ता देवता मम सकलसिद्धि प्राप्तये जपे विनियोगः ॥

ॐ छिन्नमस्ता महाविद्या महाभीमा महोदरी ।
चंडेश्वरी चंडमाता चंडमुंडप्रभंजिनी ॥ 4 ॥

महाचंडा चंडरूपा चंडिका चंडखंडिनी ।
क्रोधिनी क्रोधजननी क्रोधरूपा कुहूः कला ॥ 5 ॥

कोपातुरा कोपयुता कोपसंहारकारिणी ।
वज्रवैरोचनी वज्रा वज्रकल्पा च डाकिनी ॥ 6 ॥

डाकिनीकर्मनिरता डाकिनीकर्मपूजिता ।
डाकिनीसंगनिरता डाकिनीप्रेमपूरिता ॥ 7 ॥

खट्वांगधारिणी खर्वा खड्गखर्परधारिणी ।
प्रेतासना प्रेतयुता प्रेतसंगविहारिणी ॥ 8 ॥

छिन्नमुंडधरा छिन्नचंडविद्या च चित्रिणी ।
घोररूपा घोरदृष्टिः घोररावा घनोदरी ॥ 9 ॥

योगिनी योगनिरता जपयज्ञपरायणा ।
योनिचक्रमयी योनिर्योनिचक्रप्रवर्तिनी ॥ 10 ॥

योनिमुद्रा योनिगम्या योनियंत्रनिवासिनी ।
यंत्ररूपा यंत्रमयी यंत्रेशी यंत्रपूजिता ॥ 11 ॥

कीर्त्या कपर्दिनी काली कंकाली कलकारिणी ।
आरक्ता रक्तनयना रक्तपानपरायणा ॥ 12 ॥

भवानी भूतिदा भूतिर्भूतिधात्री च भैरवी ।
भैरवाचारनिरता भूतभैरवसेविता ॥ 13 ॥

भीमा भीमेश्वरी देवी भीमनादपरायणा ।
भवाराध्या भवनुता भवसागरतारिणी ॥ 14 ॥

भद्रकाली भद्रतनुर्भद्ररूपा च भद्रिका ।
भद्ररूपा महाभद्रा सुभद्रा भद्रपालिनी ॥ 15 ॥

सुभव्या भव्यवदना सुमुखी सिद्धसेविता ।
सिद्धिदा सिद्धिनिवहा सिद्धा सिद्धनिषेविता ॥ 16 ॥

शुभदा शुभगा शुद्धा शुद्धसत्त्वा शुभावहा ।
श्रेष्ठा दृष्टिमयी देवी दृष्टिसंहारकारिणी ॥ 17 ॥

शर्वाणी सर्वगा सर्वा सर्वमंगलकारिणी ।
शिवा शांता शांतिरूपा मृडानी मदानतुरा ॥ 18 ॥

इति ते कथितं देवी स्तोत्रं परमदुर्लभम् ।
गुह्याद्गुह्यतरं गोप्यं गोपनियं प्रयत्नतः ॥ 19 ॥

किमत्र बहुनोक्तेन त्वदग्रे प्राणवल्लभे ।
मारणं मोहनं देवि ह्युच्चाटनमतः परम् ॥ 20 ॥

स्तंभनादिककर्माणि ऋद्धयस्सिद्धयोऽपि च ।
त्रिकालपठनादस्य सर्वे सिद्ध्यंत्यसंशयः ॥ 21 ॥

महोत्तमं स्तोत्रमिदं वरानने
मयेरितं नित्यमनन्यबुद्धयः ।
पठंति ये भक्तियुता नरोत्तमा
भवेन्न तेषां रिपुभिः पराजयः ॥ 22 ॥

इति श्रीछिन्नमस्तादेव्यष्टोत्तरशतनाम स्तोत्रम् ॥

sri chinnamasta ashtottara satanama stotram in hindi

Copy
Give Feedback