Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

सरस्वती स्तवम्

Saraswati Stavam in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

saraswati stavam in hindi

याज्ञवल्क्यकृत सरस्वती स्तवम्

याज्ञवल्क्य उवाच
कृपां कुरु जगन्मातर्‌-मामेवं हततेजसम्‌ ।
गुरुशापात् स्मृतिभ्रष्टं विद्याहीनं च दुःखितम्‌ ॥ 1 ॥

ज्ञानं देहि स्मृतिं विद्यां शक्तिं शिष्य प्रबोधिनीम्‌ ।
ग्रंथकर्तृत्व शक्तिं च सुशिष्यं सुप्रतिष्ठितम्‌ ॥ 2 ॥

प्रतिभां सत्सभायां च विचारक्षमतां शुभाम्‌ ।
लुप्तं सर्वं दैव योगा-न्नवीभूतं पुनः कुरु ॥ 3 ॥

यथांकुरं भस्मनि च करोति देवता पुनः ।
ब्रह्मस्वरूपा परमा ज्योतीरूपा सनातनी ॥ 4 ॥

सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ।
विसर्ग बिंदुमात्रासु यदधिष्ठानमेवच ॥ 5 ॥

तदधिष्ठात्री या देवी तस्यै वाण्यै नमो नमः ।
व्याख्यास्वरूपा सा देवी व्याख्याधिष्ठातृरूपिणी ॥ 6 ॥

यया विना प्रसंख्यावान् संख्यां कर्तुं न शक्यते ।
कालसंख्या स्वरूपा या तस्यै देव्यै नमो नमः ॥ 7 ॥

भ्रम सिद्धांतरूपा या तस्यै देव्यै नमो नमः ।
स्मृतिशक्ति ज्ञानशक्ति बुद्धिशक्ति स्वरूपिणी ॥ 8 ॥

प्रतिभाकल्पनाशक्तिर्‌-या च तस्यै नमोनमः ।
सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ॥ 9 ॥

बभूव मूकवत्सोस्पि सिद्धांतं कर्तु मक्षमः ।
तदाष्जगाम भगवा-नात्मा श्रीकृष्ण ईश्वरः ॥ 10 ॥

उवाच स च तां स्तौहि वाणी मिष्टां प्रजापते ।
स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ॥ 11 ॥

चकार तत्प्रसादेन तदा सिद्धांत मुत्तमम्‌ ।
यदाप्यनंतं पप्रच्छ ज्ञानमेकं वसुंधरा ॥ 12 ॥

बभूव मूकवत्सोस्पि सिद्धांतं कर्तु मक्षमः ।
तदा तां च स तुष्टाव संत्रस्तः कश्यपाज्ञया ॥ 13 ॥

तत श्चकार सिद्धांतं निर्मलं भ्रम भंजनम्‌ ।
व्यासः पुराणसूत्रं च पप्रच्छ वाल्मीकिं यदा ॥ 14 ॥

मौनीभूत श्च सस्मार तामेव जगदंबिकाम्‌ ।
तदा चकार सिद्धांतं तद्वरेण मुनीश्वरः ॥ 15 ॥

संप्राप्य निर्मलं ज्ञानं भ्रमांध्य ध्वंसदीपकम्‌ ।
पुराणसूत्रं श्रुत्वा च व्यासः कृष्णकलोद्भवः ॥ 16 ॥

तां शिवां वेद दध्यौ च शतवर्षं च पुष्करे ।
तदा त्वत्तो वरं प्राप्य सत्कवींद्रो बभूव ह ॥ 17 ॥

तदा वेदविभागं च पुराणं च चकार सः ।
यदा महेंद्रः पप्रच्छ तत्त्वज्ञानं सदाशिवम्‌ ॥ 18 ॥

क्षणं तामेव संचिंत्य तस्मै ज्ञानं ददौ विभुः ।
पप्रच्छ शब्दशास्त्रं च महेंद्र श्च बृहस्पतिम्‌ ॥ 19 ॥

दिव्य वर्ष सहस्रं च स त्वां दध्यौ च पुष्करे ।
तदा त्वत्तो वरं प्राप्य दिव्यवर्षसहस्रकम्‌ ॥ 20 ॥

उवाच शब्द शास्त्रं च तदर्थं च सुरेश्वरम्‌ ।
अध्यापिताश्च ये शिष्या यैरधीतं मुनीश्वरैः ॥ 21 ॥

ते च तां परिसंचित्य प्रवर्तंते सुरेश्वरीम्‌ ।
त्वं संस्तुता पूजिता च मुनींद्रै र्मनु मानवैः ॥ 22 ॥

दैत्येंद्रै श्च सुरैश्चापि ब्रह्म विष्णुशिवादिभिः ।
जडीभूत स्सहस्रास्यः पंचवक्त्र श्चतुर्मुखः ॥ 23 ॥

यां स्तोतुं कि महं स्तौमि तामेकास्येन मानवः ।
इत्युक्त्वा याज्ञवल्क्य श्च भक्तिनम्रात्म कंधरः ॥ 24 ॥

प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ।
ज्योतीरूपा महामाया तेन दृष्टा7प्युवाच तम्‌ ॥ 25 ॥

सुकवींद्रो भवेत्युक्त्वा वैकुंठं च जगाम ह ।
याज्ञवल्क्य कृतं वाणी स्तोत्रमेतत्तु यः पठेत्‌ ॥ 26 ॥

स कवींद्रो महावाग्मी बृहस्पतिसमो भवेत्‌ ।
महा मूर्खश्च दुर्बुद्धिर्‌-वर्षमेकं यदा पठेत्‌ ।
स पंडितश्च मेधावी सुकवींद्रो भवेद्ध्रुवम्‌ ॥ 27 ॥

इति श्री देवी भागवते महापुराणे नवमस्कंधे
सरस्वतीस्तवं नाम पंचमोध्यायः ।
सरस्वती कटाक्ष सिद्धिरस्तु ।

इदं मयाकृतं पारायणं
श्रीसद्गुरु चरणारविंदार्पणमस्तु ।

saraswati stavam in hindi

Copy
Give Feedback